Table of Contents

<<4-1-167 —- 4-1-169>>

4-1-168 जनपदशब्दात् क्षत्रियादञ्

प्रथमावृत्तिः

TBD.

काशिका

जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्ये अञ् प्रत्ययो भवति। पाज्चालः ऐक्ष्वाकः। वैदेहः। जनपदशब्दातिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पुरवः। क्षत्रियातिति किम्? ब्राह्मणस्य पञ्चालस्य अपत्यं पाञ्चालिः। वैदेहिः। क्षत्रियसमानशब्दाज् जनपदशब्दात् तस्य राजन्यप्त्यवत्। पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1031 जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये. पाञ्चालः. (क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्). पञ्चालानां राजा पाञ्चालः. (पूरोरण् वक्तव्यः). पौरवः. (पाण्डोर्ड्यण्). पाण्ड्यः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.