Table of Contents

<<2-4-61 —- 2-4-63>>

2-4-62 तद्राजस्य बहुषु तेन एव अस्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

ते तद्राजाः 4-1-172), ञ्याऽदयस् तद्राजाः (*5,3.119 इति वक्ष्यति, तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन एव चेत् तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्ड्राः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्य इति किम्? औपगवाः। बहुषु इति किम्? आङ्गः। तेन एव ग्रहणं किम्? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः। अस्त्रियाम् इति किम्? आङ्ग्यः स्त्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1034 बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्. इक्ष्वाकवः. पञ्चालाः इत्यादि..

बालमनोरमा

1175 तद्राजस्य। `ण्यक्षत्रियार्षे'त्यतो `लु'गित्यनुवर्तते। `तेने'त्यनन्तरं कृते बहुत्वे `इत्यध्याहारः। तदाह–बहुष्विति। तदर्थकृतबहुत्वे इति। अञादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः। तेनेति किम् ?। प्रियो वाङ्गो येषां ते प्रियवाङ्गा इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद्वाङ्गशब्दात्परस्य न लुक्। यद्यपि वर्तिपदार्थविसिष्टान्यपदार्थंगतं बहुत्वं वर्तिपदार्थगतमपि भवति, ततापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक्। एतदर्थमेवकारग्रहणम्। इक्ष्वाकबः षञ्चाला इति। `जनपदशब्दा'दिति विहिस्य अञो लुकि आदिवृद्धिनिवृत्तिः। इत्यादीति। अङ्गाः वङ्गा इत्यादि बोध्यम्। कतं तर्हीति। `कौरव्या' इत्यत्र ण्यप्रत्ययस्य, `पाण्ड\उfffद्' इत्यत्र ड\उfffद्ण्प्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः। साधव इतीति। कौरव्यशब्दात्, पाण्ड\उfffदाशब्दाच्च `तत्र साधुः' इति यत्प्रत्यये `यस्येति चे'त्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाऽभावान्न लुगित्यर्थः। ननु रघुयदुशब्दयोर्जनपदवाचित्वाऽभावात्प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाऽभावात्कथं बहुषु तस्य लुगित्याशङ्क्यपरिहरति-रघूणामिति। लक्षणयेति। `प्रयोग' इति शेषः। ततश्च नेदमपत्यप्रत्यान्तमिति भावः। लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम्।

तत्त्वबोधिनी

971 तद्राजस्य। तदर्थेति। तद्राजप्रत्ययार्थेन कृत इत्यर्थः। तेनैवेति किम्?। प्रियपाञ्चालाः। साधव इतीति। तथाच `तत्र साधु'रिति यत्प्रत्ययस्य तद्राजत्वाऽभावल्लुङ् नेति भावः। रघुयदुशब्दयोक्जनपदवाचित्वाऽभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या राघवाणां यादवैरित्येव भवतिव्यमित्याशङ्क्याह- –रघुयदुशब्दयोरिति। लक्षणयेति। ततश्चोक्तार्थत्वादपत्यप्रत्ययो नाऽत्रोत्पन्न इति भावः।

Satishji's सूत्र-सूचिः

TBD.