Table of Contents

<<4-1-174 —- 4-1-176>>

4-1-175 कम्बोजाल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

जनपदशब्दात् क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुक् भवति। कम्बोजः। कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्। चोलः। केरलः। शकः। यवनः। तस्य राजनि इत्येव, कम्बोजो राजा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1035

बालमनोरमा

1176 कम्बोजाल्लुक्। `तद्राजा' इत्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः। अबहुत्वार्थं सूत्रम्। कम्बोजः कम्बोजाविति। `जनपदशब्दा'दिति विहितस्य अञो लुक्। चोलः शक इति। चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति। `द्व्यञ्मगधे'ति विहितस्येत्यर्थः। केरल इति। केरलयवनशब्दौ देशराजोभयवाचिनौ। अञो लुगिति। `जनपदशब्दादिति विहितस्ये'ति शेषः। ननु `काम्बोज' इति कथं, लुक्प्रसङ्गादित्यत आह–कम्बोजाः समरे इति। दीर्घपाठे त्विति। अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः। अभिजन इति। यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति। सिन्धुतक्षेति। सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः।

तत्त्वबोधिनी

972 कम्बोजाल्लुक्। `तद्राजस्य बहुषु इति प्रकरण एवेदं न कृतं, द्व्येकार्थवाचकस्याऽञो लुगभावप्रसङ्गात्। यद्यपि लुगधिकारे पुनर्लुग्विधानसामथ्र्यातद्?द्व्येकयोरप्यञो लुग्भविष्यत्येवेति वक्तुं शक्यं, तथाप्यतद्राजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाऽभावाच्च चचप्रकरणे न कृतमित्याहुः। न चात्र अपत्ये लक्षणयैव `कम्बोजः कम्बोजौ'इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्क्यं, `कम्बोज'इत्यादिपाक्षिकाऽनिष्टवारणाय सूत्रस्यावश्यकत्वात्। कम्बोजशब्दस्य सिन्ध्वादित्वादण्। तस्य तु तद्राजत्वाऽभावल्लुङ्नेति भावः।

Satishji's सूत्र-सूचिः

TBD.