Table of Contents

<<4-1-172 —- 4-1-174>>

4-1-173 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्

प्रथमावृत्तिः

TBD.

काशिका

जनपदशब्दात् क्षत्रियातित्येव। सल्वा नाम अक्षत्रिया तन्नामिका, तस्या अपत्यं, द्व्यचः 4-2-121 इति ढक्, साल्वेयः। अणपीष्यते, साल्वः। तस्य निवासः साल्वो जनपदः। तदव्यवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो भवति। अञो ऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रत्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनि इत्येव, औदुम्बरी राजा। उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1173 साल्वावयव। उदुम्बरादय इति। `उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः। इति प्रसिद्धिः। `द्व्यञ्मगधे'ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः।

तत्त्वबोधिनी

969 उदुम्बरादय इति। `उदुम्बरास्तिलखला मद्रकारा युगंधराः। भ्रूलिङ्गा शरदण्डाश्च साल्वावयवसंज्ञिताः'इति वृत्तिः। औदुम्बरिरिति। तैलखलिः। माद्रकारिः। यौगन्धरिरित्यादीन्युदाहर्तव्यानि।

Satishji's सूत्र-सूचिः

TBD.