TBD.
षट्संज्ञाकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते। पञ्च ब्राह्मण्यः। सप्त। नव। दश। स्वस्रादिभ्यः स्वसा। दुहिता। ननान्दा। याता। माता। तिस्रः। चतस्रः। षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान् न स्यत्। प्रत्याहाराच् चापा सिद्धं दोषस्त्वित्त्वे तस्मान् न उभौ।
TBD.
234
306 `ऋन्नेभ्यः' इति ङीपि प्राप्ते–न षट्। षट् इत्यनेन षट्संज्ञका गृह्रन्त इत्याह–षट्संज्ञकेभ्य इति। ङीप्टापाविति। `ऋन्नेभ्यः' इत्यतो `ङी'विति, `टावृचि' इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः। स्वरुआआदीन् पठतिस्वसा तिरुआ इत्यादिना। अथ `तिसृचतसृ' इत्यनयोः पाठो न कर्तव्यः, `न तिसृचतसृ' इति नामि दीर्घनिषेधादेव लिङ्गान्ङीबभावसिद्धेरिति `कृन्मेजन्तः' इति सूत्रे कैयटः। न नन्दतीनि ननान्दा। `नञि च नन्देः' इति ऋन्, वृद्धिश्च। `ननान्दा तु स्वसा पत्युः' इत्यमरः। दोग्धीति दुहिता। `नप्तृनेष्टृत्वहोतृपोतृभ्रातृजामातृपितृदुहितृ' इति दुहेस्तृच्। इट् गुणाऽभावश्च निपातितः। मान्यते पूज्यते इति माता। मान पूजायाम्। तृचि नलोपश्च। यतते इति याता। `यतेर्वृद्धिश्च' इति ऋन्, उपधावृद्धिश्च। `भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इत्यमरः। अतृन्नितीति। स्वसृशब्दात् सुः, `ऋदुशनस्' इत्यनङ्, तृप्रत्ययान्तत्वाऽभावेऽपि `अप्तृन्' इति सूत्रे स्वसृग्रहणाद्दीर्घ इति भावः। माता पितृवदिति। `अप्तृन्' इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावा। इत्यृदन्ताः। अथ ओदन्ताः। द्यौर्गोवदिति। ओतो णित्' इति णिद्वत्त्वाऽतिदेशात्। `अचो ञ्णिति' इति वृद्धिः। `द्योदिवौ द्वे स्त्रियामभ्र'मित्यमरः। इत्योदन्ताः। अथ ऐदन्ताः। राः पुंवदिति। `रायो हली'त्यात्वम्। `राः स्त्रीत्येके' इति क्षीरस्वाम्युक्तेः स्त्रीलिङ्गोऽप्ययमिति भावः। इत्यैदन्ताः। अथ ओदन्ताः नौर्ग्लौवदिति। स्त्रियां नौस्तरणिस्तरिः' इत्यमरः। इत्यौदन्ताः। स्त्रीलिङ्गा*
268 न षट्स्वस्त्रादिभ्यः। `स्त्रियां यदुक्तं तन्न भवती'ति व्याख्यानादनन्तरो ङीबिव व्यवहितष्टबपि निषिध्यत इत्याशयेनाह—-ङीष्टापौ नेति। स्वस्त्रादीनां ङीप्प्राप्तः। षट्संज्ञकानां तूभौ। स्वसा तिरुआ इति। `न तिसृचतसृ'इति नामि दीर्घत्वप्रतिषेधाज्ज्ञापकादेव ङीबभावे सिद्धे स्वस्त्रादिषु तिसृचतसृशब्दपाठो न कर्तव्य इति `कृन्मेजन्तः'इति सूत्रे कैयटः। स्वसेति। `सावसेरृन्'। `ऋदुशन'इत्यनङ्। `ननान्दा तु स्वसा पतच्युः'। `भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'। द्यौर्गोवदिति। `गमेर्डोः'बाहुलकाद्दयुतेरपि। डित्त्वाट्टिलोपः। `ओतो णि'दिति णिद्व द्भावाद्वृद्धिः। राः पुंवदिति। यद्यपि पुंलिङ्गः एवायम्, अर्थरैविभवा अपि`इत्यमरोक्तेः। भिन्नलिङ्गानां न द्व'न्द्व इति तेन परिभाषितत्वात्, तथापि `रात्येनं राः। स्त्रीत्येके'इति क्षीरस्वामिनास्त्रीलिङ्गताया अप्यभ्युपगमादेवमुक्तम्। नौर्ग्लौवदिति। `ग्लानुदिभ्यां ङौः'। डित्वाट्टिलोपः। `स्त्रियां नौस्तरणिस्तरि'रित्यमरः।
142) न षट्स्वस्रादिभ्यः 4-1-10
वृत्ति: षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। “स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” The feminine affixes do not come after words that have the “षट्” designation and “स्वसृ” etc.
उदाहरणम् – स्वसृ = No ङीप् because of 4-1-10
स्वसृ + शस् = स्वसृ + अस् 1-3-8 = स्वसॄः 6-1-102, रुँत्व-विसर्गौ