Table of Contents

<<4-1-10 —- 4-1-12>>

4-1-11 मनः

प्रथमावृत्तिः

TBD.

काशिका

मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति। ऋन्नेम्यो ङीप् 4-1-5 इति ङीप् प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते। दामा, दामानौ, दामानः। पामा, पामानौ, पामानः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति। सीमा, सीमानौ, सीमानः। अतिमहिमा, अतिमहिमानौ, अतिमहिमानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

453 मनः। `न षट्स्वरुआआदिभ्यः' इत्यतो नेति `ऋन्नेभ्यः इत्यतो ङीबिति चानु वर्तते। `मन' इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रंते। तदाह–मन्नन्तादिति। सीमेति। `पिञ् बन्धने' औणादिको मनिन्, प्रकृतेदीर्घश्च। सीमन्शब्दान्ङीपि निषिद्धे राजवद्रूपम्। ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः। ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीब्निषेधेनेत्यत आह–सीमानाविति। डापि तु सति `सीमे' इत्येव स्यादिति भावः।

तत्त्वबोधिनी

408 न ङीबिति। पूर्वसूत्रान्नेत्यनुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

TBD.