TBD.
मन्त्रे इति न अनुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्तः इति वर्तते। अवतेः ज्वरत्वरस्रिव्यविमवाम् उपधायाश्च 6-4-20 इति ऊट्ः। ऊतिः। स्वरार्थं वचनम्। यौतेर् जवतेश्च यूतिः, जूतिः। दीर्धात्वम् च निपात्यते। सातिः। स्यतेः इत्वाभावो निपात्यते, सनोतेर् वा जनसनखनां संज्ञालोः 6-4-42 इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर् हिनोतेर् वा हेतिः। कीर्तयतेः कीर्तिः।
TBD.
867 एते निपात्यन्ते…
–
1558 उदात्त इतीति। `मन्त्रे वृषेषे'ति सूत्रादनुवर्तत इत्यर्थः। एवं च क्तिन्नन्तस्याद्युदात्तत्वे प्राप्ते `ऊतियूती'त्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः। इत्त्वाऽभाव इति। `द्यतिस्यती'ति प्राप्तस्याऽभाव इत्यर्थः। हन्तेरिति। नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम्। कीर्तिरिति। कीर्तयतेः `ण्यासश्रन्थे'–ति युचि प्राप्ते क्तिननिपात्यते, उदातत्वं च। `तां सुते कीर्तिम्'।
वृत्तिः एते निपात्यन्ते । ‘ऊति’, ‘यूति’, ‘जूति’, ‘साति’, ‘हेति’ and ‘कीर्ति’ are given as six ready-made feminine forms ending in the affix क्तिन् having a उदात्त: accent.
Note: ‘ऊति’ is derived from the verbal root √अव् (अवँ रक्षणादौ १. ६८४). This सूत्रम् is necessary for the उदात्त: accent on the affix क्तिन् here.
In the remaining forms, in addition to the उदात्त: accent on the affix क्तिन्, the following special operations are implied -
‘यूति’ – elongation of the vowel of the verbal root √यु (यु मिश्रणेऽमिश्रणे च २. २७)
‘जूति’ – elongation of the vowel of the verbal root √जु (जु वेगितायां गतौ – सौत्रधातु:)
‘साति’ – preventing the इकारादेश: (which would have been done by 7-4-40 द्यतिस्यतिमास्थामित्ति किति) in place of the आकार: of the verbal root √सो (षो अन्तकर्मणि ४. ४२). Alternately the form ‘साति’ may be derived from the verbal root √सन् (षणुँ दाने ८. २).
‘हेति’ – इकारादेश: in place of the ending नकार: of the verbal root √हन् (हनँ हिंसागत्योः २. २). Alternately the form ‘हेति’ may be derived from the verbal root √हि (हि गतौ वृद्धौ च ५. १२) in which case the special operation is the गुणादेश: (एकार:) in place of the ending इकार: of the verbal root.
‘कीर्त्ति’/'कीर्ति’ – preventing the affix युच् (which would have been done by 3-3-107 ण्यासश्रन्थो युच्) from over-ruling the affix क्तिन्।
उदाहरणम् – कीर्त्यत इति कीर्त्ति:/कीर्ति: derived from the verbal root √कॄत् (कॄतँ संशब्दने १०. १५५)।
कॄत् + णिच् 3-1-25
= कॄत् + इ 1-3-3, 1-3-7, 1-3-9
= किर् त् + इ 7-1-101, 1-1-51
= कीर्ति 8-2-78. ‘कीर्ति’ gets the धातु-सञ्ज्ञा by 3-1-32.
कीर्ति + क्तिन् Note: The affix युच् would have come here by 3-3-107.
Instead we use the affix क्तिन् in order to get the form ‘कीर्त्ति’/'कीर्ति’ given in 3-3-97.
= कीर्ति + ति 1-3-3, 1-3-8, 1-3-9
= कीर्त् + ति 6-4-51
= कीर्त्ति/कीर्ति 8-4-65. ‘कीर्त्ति’/'कीर्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.