Table of Contents

<<3-3-41 —- 3-3-43>>

3-3-42 सङ्घे च अनौत्तराधर्ये

प्रथमावृत्तिः

TBD.

काशिका

चेः इत्येव। प्राणिनां समुदायः सङ्घः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। सङ्घे वाच्ये चिनोतेर् धातोः घञ् प्रत्ययो भवति आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्ये इति किम्? सूकरनिचयः। प्राणिविषयत्वात् सङ्घस्य इह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1529 सङ्घे चानौत्तराधर्ये। उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम्। सूकरेति। स्तनपानार्थंमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम्। यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि घञ्।

Satishji's सूत्र-सूचिः

वृत्तिः चेर्घञ् आदेश्‍च क: । प्राणिनां समूह: सङ्घ: । The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical arrangement.

उदाहरणम् – भिक्षुनिकाय: । वैयाकरणनिकाय: ।

अनौत्तराधर्ये किम्? सूकरनिचय: । स्तनपानार्थमुत्तराधरभावेन सूकरा: शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदा भवत्येव घञिहापि ।

सङ्घे किम्? प्रमाणसमुच्चय:।