Table of Contents

<<3-3-43 —- 3-3-45>>

3-3-44 अभिविधौ भावे इनुण्

प्रथमावृत्तिः

TBD.

काशिका

अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः। अभिविधौ गम्यमाने धातोः भवे इनुण् भवति। साङ्कूटिनम्। सांराविणम्। सान्द्राविणं वर्तते। अभिविधौ इति किम्? सङ्कोटः। सन्द्रावः। संरावः। भावे इति वर्तमने पुनर् भावग्रहणं वासरूपनिरासार्थम्, तेन घञ् न भवति। ल्युटा तु समावेश इष्यते। सङ्कूटनं वर्तते। तत् कथम्? कृत्यल्युटो बहुलम् 3-3-113 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1533 अभिविधौ। अभिविधौ किम् ?। संरावः। वासरूपेण घञ् क्तश्च न भवति, पुनर्भावग्रहणात्। नच कर्तृभिन्नकारकनिवृत्तये भावग्रहममिति वाच्यं, पूर्वसूत्र इव शक्तिस्वाभाव्यादेवेनुणोऽप्रवृत्तेः। ल्युटा तु समावेश इष्यते–संरवणमिति। तच्च बाहुलकाल्लभ्यत इत्याकरः।

Satishji's सूत्र-सूचिः

TBD.