Table of Contents

<<3-3-112 —- 3-3-114>>

3-3-113 कृत्यल्युटो बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

भावे, अकर्तरि च कारके इति निवृतम्। कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च भौलम् अर्थेषु भवन्ति। यत्र विहितास् ततो ऽन्यत्र अपि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरे ऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोः भावे च ल्युट्। अन्यत्र अपि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्ये ऽपि कृतः यथाप्राप्तम् अभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

775 क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव.विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति.. 1..स्नात्यनेनेति स्नानीयं चूर्णम्. दीयतेऽस्मै दानीयो विप्रः..

बालमनोरमा

662 कृत्यल्युटो। याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः।स्नानीयमिति। करणे अनीयर्। दानीय इति। संप्रदाने अनीयर्। भाष्ये तु `कृतो बहुलमिति वक्तव्य'मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः। कर्मणि ण्वुल्। \उfffदाओऽग्नीनाधास्यमानेन। अनद्यतने भविष्यति लृडित्युदाह्मतम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च बहुलमर्थेषु स्युः । The affixes having the designation “कृत्य” and the affix “ल्युट्” are used variously (बहुलम्)।

Note: The term बहुलम् is described as follows:
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ ‘बहुलम्’ (various) application of a rule means that the rule is sometimes applied (even when not expressly ordained), sometimes not applied (even when expressly ordained), sometimes applied optionally or sometimes results in a totally different operation.

उदाहरणम् – स्नात्यनेन = स्नानीयं चूर्णम् । दीयतेऽस्मै = दानीयो विप्रः । उद्विजन्तेऽस्मात् = उद्वेजनीय:। शेतेऽस्मिन् = शयनीयम्।