Table of Contents

<<3-3-140 —- 3-3-142>>

3-3-141 वाऊउताप्योः

प्रथमावृत्तिः

TBD.

काशिका

भूते लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते। वा आ उताप्योः वोताप्योः। मर्यादायाम् अयम् आङ्, न अभिविधौ। उताप्योः समर्थयोर् लिङ् 3-3-152 इति वक्ष्यति। प्रागेतस्मात् सूत्रावधेः यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियातिपत्तौ लृङ् वा भवति इत्येतदधिकृतं वेदितव्यम्। वक्ष्यति, विभाषा कथमि लिङ् च 3-3-143 कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत्। यथाप्राप्तं च याजयेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

621 वोताप्योः। अयमप्यधिकारः। वा आ उताप्योरिति छेदः। भूते इति, लिङ्निमित्ते लृङिति चानवर्तते। तदाह–उताप्योरित्यतः प्रागिति। `उताप्योः समर्थयो'रित्यतः प्रागित्यर्थः। नन्वनेन `उताप्यो'रित्यतः प्राग्भूते लिङ्निमित्ते लृङ्वेत्याधिकाराक्रान्तत्वाद्भूतेचेति पूर्वमधिकारसूत्रं निर्विषयमित्यत आह- - पूर्वसूत्रं त्विति। `उताप्योः समर्थयोर्लि'ङित्यारभ्य इच्छार्थेभ्यो विभाषे'त्यतः प्राक् `भूते चे'ति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः। इमावधकारौ यत्रलिङ्विधिस्तत्रैव प्रवर्तेतते, नतु लडादिविधौ, लिङ्निमित्ताऽभावात्।

तत्त्वबोधिनी

513 लृङ् वेति। लिङ्निमित्ते भूत एवायं विकल्पो, भविष्यति तु न्तियमेव लृङ्।

Satishji's सूत्र-सूचिः

TBD.