Table of Contents

<<3-3-139 —- 3-3-141>>

3-3-140 भूते च

प्रथमावृत्तिः

TBD.

काशिका

लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते। पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। उताप्योः समर्थयोर् लिङ् 3-3-152 इत्यारभ्य लिङ्निमित्तेषु विधानम् एतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रो ऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टो ऽभविष्यत्, तदा अभिक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

620 भूते च। अधिकारोऽयम्। अनुवर्तते इति। तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः।

तत्त्वबोधिनी

512 भूते च। लिङ्?निमित्ते लृङ् स्याद्भूते भविष्यति च क्रियापत्तौ। अद्यतनाऽनद्यतनसाधारमं भूतसामान्यमिह ज्ञेयम्। अस्योदाहरणानि—`उताप्योः समर्थयोर्लिङ्' इत्यारभ्य `समानकर्तृकेषु तुमु'न्निति विहाय सप्तसूत्र्यां बोध्यानि, ततः प्राचीनेषु `वोताप्यो'रित्यनेन विकल्पोक्तेः।

Satishji's सूत्र-सूचिः

वृत्ति: (पूर्वसूत्रं संपूर्णमनुवर्तते।) हेतुहेतुमद्भावादि लिङिनमित्तं तत्र भूतार्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । (The अनुवृत्तिः of the entire prior सूत्रम् 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ comes down into this सूत्रम्।) The affix लृँङ् is employed after a verbal root to also denote a past action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.
Note: The affix लृँङ् has to be used in both the antecedent and the consequent clauses.

उदाहरणम् – सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्। If there had been good rain (which clearly there wasn’t) then there would have been plenty of food.