Table of Contents

<<3-3-151 —- 3-3-153>>

3-3-152 उताप्योः समर्थयोर् लिङ्

प्रथमावृत्तिः

TBD.

काशिका

उत अपि इत्येतयोः समर्थयोः धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। बाढम् इत्यस्मिन्नर्थे समानार्थत्वम् अनयोः। उत कुर्यात्। अपि कुर्यात्। उताधीयीत। अप्यधीयीत। बाढमध्येष्यते इत्यर्थः। समर्थयोः इति किम्? उत दण्डः पतिष्यति? अपि द्वारं धास्यति। प्रश्नः प्रच्छादनं च गम्यते। वाऽऔताप्योः 3-3-141 इति विकल्पो निवृत्तः। इतः प्रभृटि भूते ऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्। भविष्यति तु सर्वत्र एव नित्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

632 उताप्योः। समौ अर्थौ ययोरिति विग्रहः। शकन्ध्वादित्वात्पररूपम्। एकार्थयोरित्यर्थः। कमर्तमादायानयोरेकार्थकत्वमित्यत आह– बाढमिति। तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः। उत अपि वेति। उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः। `उताऽपी'बाढमितयर्थकौ। गम्यते इति। `उत दण्ड पतिष्यती'त्यत्र उतशब्देन प्रश्नो गम्यते। `अपिधास्यति द्वार'मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः। इतः प्रभृतीति। `वोताप्यो'रिति मर्यादायामाङ्। `उताप्यो'रत्यतः प्राग्भूते लिङ्?निमित्ते लृङ् वेत्यधिक्रियते। `उताप्यो'रित्यादिसूत्रेषु भूते `लिङ्?निमित्ते लृङ् क्रियातिपत्तौ' इत्येवाधिक्रियते इत्युक्तम्। एवं च `उताप्यो'रिति सूत्रप्रभृति लिङ्?निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम्। अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः।

तत्त्वबोधिनी

523 उताप्योः। धातोर्लिङ् स्यात्कालत्रये। भूतेऽपि नित्य इति। वाग्रहमस्य निवृत्तत्वाद्भविष्यतीव भूतेऽपि नित्यं लृङ्। उताऽहनिष्यद्दस्युं राजा। नाऽहन्, न हनिष्यतीति गम्यते।

Satishji's सूत्र-सूचिः

TBD.