Table of Contents

<<3-3-142 —- 3-3-144>>

3-3-143 विभाष कथमि लिङ् च

प्रथमावृत्तिः

TBD.

काशिका

गर्हायाम् इति वर्तते। कथमि उपपदे गर्हायां गम्यमानायं धातोः लिङ् प्रत्ययो भवति, चकाराल् लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानाम् अबाधनार्थम्। कथं नाम तत्रभवान् वृषलं याजयेत्, कथं नाम तत्रभवान् वृषलं याजयति। कथं नाम तत्रभवान् वृषलं याजयिष्यति। कथं नाम तत्रभवान् वृषलं याजयिता। कथं नाम तत्रभवान् वृषलं याजयेत्। कथं नाम तत्रभवान् वृषलम् अयाजयत्। कथं नाम तत्रभवान् वृषलं यायजां चकार। अत्र लिङ्निमित्तम् अस्ति इति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद् विवक्षायां सर्वत्र नित्येन एव लृङा भवितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

623 विभषा कथमि। गर्हायामित्येवेति। अनुवर्तत एवेत्यर्थः। `कालत्रये लि'ङिति शेषपूरणम्। भविष्यतीति निवृत्तमिति। भावः चाल्लडिति। `समुच्चीयते' इति शेषः। तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम्। कथं धर्मं त्यजेरिति। त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः। `गर्हितमेतदिति कथंशब्दाद्गम्यते। लटि उदाहरति– त्यजसि वेति। उक्तोऽर्थः। पक्षे इति। विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्?लङ्?लुङ्?लट्?लुट्?लृट इत्यर्थः। अत्रेति। अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानां `लिङ्?निमित्ते लृङ् क्रियातिपत्तौ' इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्?निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः। भूते वेति। `वोताप्यो'रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः। भविष्यि नित्यं लृडित्यत्रोदाहरति– कथं नामेति। `तत्र भवा'निति समुदायः पूज्यवाची। वेदप्रामाण्याभ्युपगन्तेति यावत्। एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.