TBD.
गर्हा कुत्सा इत्यनर्थान्तरम्। गर्हायां गम्यमानायाम् अपिजात्वोः उपपदयोः धातोः लट् प्रत्ययो भवति। वर्तमने लटुक्तः कालसामान्ये न प्राप्नोति इति विधीयते। कालविशेषविहितांश्च अपि प्रत्ययानयं परत्वादस्मिन् विषये वाधते। अपि तत्रभवान् वृषलं याजयति, जातु तत्रभवान् वृषलं याजयति, गर्गामहे, अहो अन्याय्यम् एतद्। लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति।
TBD.
–
622 गर्हायाम्। अपि जातु अनयोद्र्वन्द्वः। अत्र `वोताप्योरिति भूते लिङ्निमित्ते लृङ् वा इत्यधिकारो न संबध्यते। लड्विधानेन तद्विषये लिङ्?निमित्ताऽभावात्। कालत्रये इति। वर्तमाने भूते। भविष्यति चेत्यर्थः। भविष्यतीति निवृत्तम्। अतः कालसामान्ये लडिति भावः। परत्वादिति। अनवकाशत्वाच्चेत्यपि द्रष्टव्यम्। `अपि जाया'मित्यत्र , `जातु गणिका'मित्यत्र अपि- जातुशब्दौ निन्दाद्योतकौ। तदाह- - गर्हितमेतदिति।
514 गर्हायाम्। अत्र `वोताप्यो'रितिन संबध्यते। वर्तमाने लडुक्तः तु न प्राप्नोतीति विधिरयम्। कालत्रय इति। कालविशेषानुपादानादिति भावः। परत्वादिति। निरवकाशत्वादित्यपि बोद्ध्यम्। अपि जायामिति। त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपि `यो जायामपि त्यजति जातु गणिकामाधत्ते' इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः। लिङ्निमित्ताऽभावादिह क्रियातिपत्तौ लृङ्न भवति। कालत्रये लकारा इति। परोक्षानद्यतनभूते लिट्–कथं धर्मं तत्यक्थ। भूतानद्यतने लह्–कथं धर्ममत्यजः। भूतसामान्ये लुङ्–अत्याक्षीः। भविष्यत्यनद्यने लुट्–त्यक्तासि। भविष्यत्सामान्ये लृट्–कथं धर्मं तय्क्ष्यसीत्यादि। अत्रेति। क्रियातिपत्ताविति ज्ञेयम्।
TBD.