Table of Contents

<<3-3-118 —- 3-3-120>>

3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।

प्रथमावृत्तिः

TBD.

काशिका

गोचरादयः शब्दाः घप्रययान्ता निपात्यन्ते पूर्वस्मिन्नेव अर्थे। हलश्च 3-3-121। इति घञं वक्ष्यति, तस्य अयम् अपवादः। गावश्चरन्ति अस्मिनिति गोचरः। सञ्चरन्ते अनेन इति सञ्चरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनातजेर् व्यघञपोः 2-4-56 इति वीभावो न भवति। एत्य तस्मिन्नापणन्ते इत्यापणः। निगच्छन्ति तस्मिनिति निगमः। चकारो ऽनुक्तसमुच्चयार्थः। कषः। निकषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः घान्ता निपात्यन्ते । ‘गोचर’, ‘संचर’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘निगम’ are given as ready-made proper nouns ending in the affix ‘घ’ to denote in the masculine gender the instrument or the locus of the action.
Note: The affix ‘घ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-121.

उदाहरणम् – आ समन्तात् पणन्तेऽत्रेत्यापण: derived from the verbal root √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७) with the उपसर्ग: ‘आङ्’।

उदाहरणम् – निगच्छन्त्यनेनेति निगम: derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: ‘नि’।