Table of Contents

<<2-4-55 —- 2-4-57>>

2-4-56 अजेर् व्यघञपोः

प्रथमावृत्तिः

TBD.

काशिका

अजेर् धातोः वी इत्ययम् आदेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवयणीयः। प्रवायकः। अघञपोः इति किम्? समाजः। उदाजः। अपि तु समजः। उदजः। समुदोरजः पशुषु 3-3-69 इत्यप्। दीर्घोच्चारणम् किम्? प्रवीताः। भञपोः प्रतिषेधे क्यप उपसङ्ख्यानम् कर्तव्यम्। समज्या। वलादावार्धधातुके विकल्प इष्यते। प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

110 अजेव्र्य। वी- इति च्छेदः। तेन संवीतः संवीतिरित्यादि सिध्यति। आद्र्धधातुकविषय इति। तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाऽभावाद्यह् न स्यादिति भावः। यङ्लुक् त्वस्मान्न भवति, लुका यङोऽपहारे आद्र्धदातुकविषयत्वाऽभावान्नाद्र्धधातुकाभिव्यक्तिरित वीभावस्यैवाऽप्रसक्तेः। एतच्च `न लुमते'ति सूत्रे कैयटे स्पष्टम्। अघञपोः किम् ?। समाजः। `समुदोरजः पशुषु' इत्यप्। समजः। उदजः। विव्यतुरिति। `एरनेकाचःर' इति यण्। लोपाजादेश एवेति। एतच्च `\त्न पदान्ते' ति सूत्रएवास्माभिरुपपादितम्। एकाच इतीति। अजेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, ऊदृ?दन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यभ्युपगमात्।

Satishji's सूत्र-सूचिः

TBD.