Table of Contents

<<3-3-117 —- 3-3-119>>

3-3-118 पुंसि संज्ञायां घः प्रायेण

प्रथमावृत्तिः

TBD.

काशिका

करनाधिकरनयोः इत्येव। पुंलिङ्गयोः करणाधिकरनयोरभिधेययोः धातोः घः प्रत्ययो भवति समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणम् अकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि एत्य तस्मिन् कुर्वन्ति इति आकरः। आलयः। पुंसि इति किम्? प्रसाधनम्। संज्ञायाम् इति किम्? प्रहरणो दण्डः। घकारः छन्देर् घे ऽद्व्युपसर्गस्य 6-4-96 विशेषणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः पुंलिङ्गयो: करणाधिकरणयोरभिधेययोर्धातोर्घ: स्यात् प्रायेण, समुदायेन चेत् सञ्ज्ञा गम्यते । To denote the instrument or the locus of the action, the affix ‘घ’ is generally used following a verbal root, provided the word so derived is used in the masculine gender as a proper name.
Note: घकारः ‘६-४-९६ छादेर्घेऽद्व्युपसर्गस्य’ इति विशेषणार्थः। पाणिनि: has used the letter ‘घ्’ as a इत् in the affix ‘घ’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य।

उदाहरणम् (अधिकरणे) – आकुर्वन्‍त्‍यस्‍मिन्नित्‍याकरः (एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम्) derived from the verbal root √कृ (डुकृञ् करणे ८. १०) in composition with the उपसर्ग: ‘आङ्’।
अथवा – आकीर्यन्ते धातवोऽत्रेत्याकर: derived from the verbal root √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५) in composition with the उपसर्ग: ‘आङ्’।

खने: सञ्ज्ञेयम् । आकरः is a proper name meaning खनि: (mine.)

आङ् + कृ/कॄ + घ 3-3-118
= आ + कृ/कॄ + अ 1-3-3, 1-3-8, 1-3-9
= आ + कर् + अ 7-3-84, 1-1-51
= आकर । ‘आकर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् (करणे) – दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छद: derived from the verbal root √छद् (छदँ अपवारणे १०. ४८१) in composition with the object ‘दन्त’।

छद् + णिच् 3-1-25
= छद् + इ 1-3-3, 1-3-7, 1-3-9
= छाद् + इ 7-2-116 = छादि । ‘छादि’ gets the धातु-सञ्ज्ञा by 3-1-32.

दन्त + आम् + छादि + घ 3-3-118. Note: The sixth case affix ‘आम्’ is used with the object ‘दन्त’ as per 2-3-65.
= दन्त + आम् + छादि + अ 1-3-8, 1-3-9
= दन्त + आम् + छाद् + अ 6-4-51

Example continued under 6-4-96