Table of Contents

<<3-2-38 —- 3-2-40>>

3-2-39 द्विषत्परयोस् तापेः

प्रथमावृत्तिः

TBD.

काशिका

द्विषत्परयोः कर्मणोरुपपदयोः तापेः धातोः खच् प्रत्ययो भवति। तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणम्। द्विषन्तं तापयति द्विषन्तपः। परन्तपः। द्विषत्परयोः इति द्वितकारको निर्देशः। तेन स्त्रियां न भवति। द्विषतीं तापयति द्विषतीतापः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धन्तकौमुदी

< 3-2-386-4-94 > २९५४ खच्स्यात् ॥

बालमनोरमा

768 द्विषन्तप इति। `अरुर्द्विष' दित तकारात्प्राक् मुम्। परन्तप इति। परः - शत्रुः। ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि `द्विषतीतप' इति स्यात् `द्विषतीताप' इत्यण्णन्तं न स्यादित्यत आह– घटघटीति। `शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान'मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः। `उपपदविधौ लिङ्गविशिष्टपरिभाषा ने'ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम्।

तत्त्वबोधिनी

638 द्विषन्तप इति। `अरुर्द्विषदि'ति मुमि कृते संयोगान्तलोपः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः खच् स्यात् । The affix “खच्” may be used after the verbal root “तापि” when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “द्विषत्” or “पर”। Note: The verbal root “तापि” refers to either √तप् (तपँ दाहे, # १०. ३५०) or a causative form of √तप् (तपँ सन्तापे, # १. ११४०).

उदाहरणम् – परान् (शत्रून्) तापयतीति परंतप:/परन्तप:।

तप् + णिच् 3-1-25/3-1-26
= तप् + इ 1-3-3, 1-3-7, 1-3-9
= ताप् + इ 7-2-116 = तापि । “तापि” gets the धातु-सञ्ज्ञा by 3-1-32.

पर + आम् (ref: 2-3-65) + तापि + खच् 3-2-39
Note: In the सूत्रम् 3-2-39, the term द्विषत्परयो: ends in the seventh (locative) case. Hence “पर + आम्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= पर + आम् + तापि + अ 1-3-3, 1-3-8, 1-3-9

Example continued under 6-4-94

Examples

Also note, 2-2-19, गतिकारकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः’ इति ।