TBD.
प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच् प्रत्ययो भवति। प्रियं वदति इति प्रियंवदः। वशंवदः। चकारः खचि ह्रस्वः 6-4-94 इति विशेषणार्थः। खकारो मुमर्थः। प्रत्ययान्तरकरणमुत्तरार्थम्। खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम्। मितङ्गमो हस्ती। मितङ्गमा हस्तिनी। विहायसो विह च। विहायसा गच्छति विहङ्गमः। खच्च डिद्वा वक्तव्यः। विहङ्गः, विहङ्गमः। डे च विहायसो विहादेशो वक्तव्यः। विहगः।
TBD.
801 प्रियंवदः. वशंवदः..
766 प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः। खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते। गमेः सुपि वाच्य इति। `ख' जिति शेषः। ननु संज्ञायामित्यनुवृत्तौ `गमश्चे'ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह— असंज्ञार्थमिदमिति। विहायस इति। विहायः शब्दः आकासे वर्तते। तस्मिन्नुपपदे गमेः खच्। `गमश्चे'ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच् `चे'त्यनूद्यते। प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः। विहङ्ग इति। डित्त्वपक्षे तत्सामथ्र्यादभस्यापि टेर्लोपः। विहङ्गम इति। विहायसा गच्छतीति विग्रहः। भुजङ्गम इति। भुजैर्गच्छतीति विग्रहः। द्विषत्परयोः। `तप दाहे' चुरादिः, `तप सन्तापे' भ्वादिः। द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः। खच् स्यादिति। द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः। द्विषत् तापि अ इति स्थिते आह–
637 प्रियवशे वदः खच्। खकारो मुमर्थः, चकारस्तु `खचि ह्यस्वः' इति विशेषणार्थ इति वृत्तिः। खे ह्यस्व इत्युच्यमाने एजेः खश जनमेजय इत्यत्रापि स्यादिति तदाशयः। `एकानुबन्धग्ररणे द्व्यनुबन्धस्य न ग्रहण'मिति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्याऽयुक्तत्वमाहुः। खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम्, द्विषन्तप इत्यत्र ह्यस्वणिलोपौ यथा स्यातां शप् च माभूदिति। नन्वेवमुत्तरत्रैव क्रियतामिति चेत्। सत्यम्। इह करणमन्यतोऽपि क्वचिद्भवतीति ज्ञापनार्थं तेन `गमेः सुपी'ति नाऽपूर्वं वार्तिकं, किंतु ज्ञापकसिद्धमेव। असंज्ञार्थमिति। संज्ञायां तु वक्ष्यमाणेन `गमश्चे'ति सूत्रेणैव सिद्धमिति भावः।
पूर्ववार्तिकेनैवक्यमकृत्वा `खच्च डिद्वे' ति पृथक्करणसामथ्र्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति– भुजङ्गमः। भुजङ्ग इति। इह `गमेः सुपी'ति खच्।
वृत्तिः स्पष्टम् । The affix “खच्” may be used after the verbal root √वद् (वदँ व्यक्तायां वाचि, # १. ११६४) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “प्रिय” or “वश”।
उदाहरणम् – प्रियं वदतीति प्रियंवद:।
प्रिय + ङस् (ref: 2-3-65) + वद् + खच् 3-2-38
Note: In the सूत्रम् 3-2-38, the term प्रियवशे ends in the seventh (locative) case. Hence “प्रिय + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= प्रिय ङस् + वद् + अ 1-3-3, 1-3-8, 1-3-9 = प्रिय ङस् + वद
Now we form the compound between “प्रिय ङस्” (which is the उपपदम्) and “वद” using the सूत्रम् 2-2-19. Note: Here “प्रिय ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “प्रिय ङस्” is placed in the prior position as per 2-2-30
“प्रिय ङस् + वद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= प्रिय + वद 2-4-71
= प्रिय मुँम् + वद 6-3-67, 1-1-47
= प्रियम् + वद 1-3-2, 1-3-3, 1-3-9. प्रियम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= प्रियंवद 8-3-23
Similarly, “वशंवद”।