TBD.
खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः। द्विषन्तपः। परन्तपः। पुरंदरः।
TBD.
–
767 खचि ह्यस्वः। `दोषो णौ' इत्यतो णाविति, `उदुपधायाः' इत्यत `उपधाया' इति चानुवर्तते। तदाह– खच्परे णाविति। खशि प्रकृते खचो विधिरिह ह्यस्वार्थोऽणिलोपार्थश्च। खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात्। न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात्। एवं च `गमेः सुपी'ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः।
–
वृत्तिः खच्परे णौ उपधाया: ह्रस्व: स्यात् । The penultimate letter (vowel) of a अङ्गम् is shortened when the अङ्गम् is followed by the affix “णि” which itself is followed by the affix खच्।
Example continued from 3-2-39
पर + आम् + तापि + अ
= पर + आम् + तपि + अ 6-4-94, 1-1-65
= पर + आम् + तप् + अ 6-4-51 = पर + आम् + तप
Now we form the compound between “पर + आम्” (which is the उपपदम्) and “तप” using the सूत्रम् 2-2-19. Note: Here “पर + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “पर + आम्” is placed in the prior position as per 2-2-30
“पर + आम् + तप” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पर + तप 2-4-71
= पर मुँम् + तप 6-3-67, 1-1-47
= परम् + तप 1-3-2, 1-3-3, 1-3-9. परम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= परंतप 8-3-23
= परंतप/परन्तप 8-4-59