TBD.
अरुस् द्विषतित्येतयोरजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य। अरुन्तुदः। द्विषन्तपः। अजन्तानाम् कालिम्मन्या। अरुर्द्विषदजन्तस्य इति किम्? विद्वन्मन्यः। अनव्ययस्य इत्येव, दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम्? कृताजन्तकार्यप्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम् भवति।
TBD.
800 अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य. शित्त्वाच्छबादिः. जनमेजयतीति जनमेजयः..
755 अरुर्द्विषत्। अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी। `अलुगुत्तरपदे' #इत्यधिकारादुत्तरपदे इति लभ्यते। `खित्यनध्ययस्य' इत्यतः खितीत्यनुवृत्तम्। कितः प्रत्ययत्वात्तदन्तविधिः। तदाह–खिदन्ते उत्तरपदे इति। जनमेजय इति। जनान् एजयतीति विग्रहः। खशः शित्त्वात्सार्वधातुकत्वं।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम्। वातशुनीति. वार्तिकमिदम्। वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी। अज, ध्टे, तुद्, दहाति एषां द्वन्द्वात्पञ्चमी। यथासङ्ख्यमन्वयः। वातमजा इति। वातमजन्तीति विग्रहः। सुपो लुकि मुम्। अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह–
630 अरुर्द्विषत्। वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिन्धय इत्यादौ ह्यस्वे कृते मुम्प्रवृत्त्यर्थम्। तथा हि अन्तः शब्दः समीपपरः, अञ्चाऽसावन्तश्चेति विग्रहः। निपातनाद्विशेषणस्य परनिपातः। समीपः `खित्यनव्ययस्ये'ति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते। एवं च `जनमेजय' इत्यादौस्वतो ह्यस्वेऽपि मुम्सिद्धये प्रथमं खितीति ह्यस्वः प्रवर्तनीय इत्यवधेयम्।
वृत्तिः अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य । When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
Example continued from 3-2-28
जन + एजय
= जन मुँम् + एजय 6-3-67, 1-1-47
= जनम् + एजय 1-3-2, 1-3-3, 1-3-9 = जनमेजय