Table of Contents

<<3-2-152 —- 3-2-154>>

3-2-153 सूददीपदीक्षश् च

प्रथमावृत्तिः

TBD.

काशिका

सूद दीप दीक्ष इत्येतेभ्यश्च युच् प्रत्ययो न भवति। अनुदात्तेत्त्वात् प्राप्तः प्रतिषिध्यते। सूदिता। दीपिता। दीक्षिता। ननु च दीपेर् विशेषविहितो रप्रत्ययः दृश्यते, नमिकम्पिस्म्यजसकमहिंसदीपो रः 3-2-167 इति, स एव वाधको भविष्यति, किं प्रतिषेधेन? वा ऽसरूपेण युजपि प्राप्नोति। ताच्छीलिकेषु च वा असरूपविधिर् न अस्ति इति प्रायिकम् एतदित्युक्तम्। तथा च समावेशो दृश्यते, कम्रा युवतिः, कमना युवतिः, इति योगविभागाद् विज्ञायते। अथवा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते। कृत्यल्युङो बहुलम् 3-3-113 इति ल्युडन्ता वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

935 सूददीप। सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी। युज्नेति। शेषपूरणमिदम्। `अनुदात्तेतश्चे'ति प्राप्तो युच् प्रतिषिध्यते। नन्विह दीपग्रहणं व्यर्थं, `नमिकम्पिस्म्यजसकमहिंसदीपोरः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः। नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह- - नमिकम्पीति। रेणेति। रप्रत्ययेनेत्यर्थः। प्रायिकमिति। तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः। तेनेति। ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः। कम्ना कमनेति। इच्छाशीलेत्यर्थः। अत्रापि `नमिकम्पी'ति रेण युचः पक्षे बाध इति भावः। आक्षिपति- - यदीति।यदि `सूददीपदीक्षश्चे'तिसूदेर्युच्प्रतिषिध्यते तदा `मधुशूदन' इति कथमित्यन्वयः। समाधत्ते– नन्द्यादिरिति। `सूदि'रिति सेषः। तथा च `नन्दिग्रही'ति ल्युप्रत्यय इति भावः।

तत्त्वबोधिनी

769 सूददीप। सूद क्षरणे, दीपी दीप्तौ, दीक्ष मौण्ड\उfffदेज्यादौ। ताच्छीलिकेष्विति। `परस्पर' मिति शेषः। प्रायिकमिति। न केवलं यथाश्रुत [ म् ] भाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं,किंतु प्रायिकत्वं एव भाष्यस्य तात्पर्यम्। तेन गमेः `लषपतपदे' त्युकञ्विषये तृन्नपि। गन्ता। गामुकः। तथा `वौ कषलसे'ति घिनुण्विषये युजपि– विकत्थी विकत्थन इत्यादि सिध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.