Table of Contents

<<3-2-151 —- 3-2-153>>

3-2-152 न यः

प्रथमावृत्तिः

TBD.

काशिका

यकारान्तात् धतोः युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

934 न यः। `य' इति पञ्चम्यनतं धातुविशेषणं। तदन्तविधिः। तदाह– यकारान्तादिति। क्नूयिता। क्ष्मायितेति। `क्नुयी शब्दे उन्दन चट `क्ष्मायी विधूनने'। अनुदात्तेतश्च हलादे'रिति युच् निषिध्यते। तृनेव भवति।

तत्त्वबोधिनी

768 न यः। अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽऽह- - यकारान्तादिति। क्नूयिता क्ष्मायितेति। क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने।

Satishji's सूत्र-सूचिः

TBD.