Table of Contents

<<3-2-153 —- 3-2-155>>

3-2-154 लषपतपदस्थाभूवृषहनकमगमशृ\उ0304भ्य उकञ्

प्रथमावृत्तिः

TBD.

काशिका

लषाऽदिभ्यो धातुभः तच्छीलादिषु कर्तृषु उकञ् प्रत्ययो भवति। उपलाषुकं वृषलसङ्गतम्। प्रपातुका गर्भा भवन्ति। उपपादुकं सत्त्वम्। उपस्थायुका एनं पशवो भवन्ति। प्रभावुकमन्नं भवति। प्रवर्षुकाः पर्जन्याः। आघातुकं पाकलिकस्य मूत्रम्। कामुका एनं स्त्रियो भवन्ति। आगामुकं वारान्सीं रक्ष आहुः। किंशारुकं तीक्ष्णमाहुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

936 लषपत। एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु। इत्यादीति। पादुकः। आतो युक्। स्थायुकः। भावुकः। वर्षुकः। घातुकः। `हनस्तः' इति तत्वम्। `हो हन्तेति' कुत्वम्। कामुकः। गामुकः। शारुकः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.