Table of Contents

<<3-2-166 —- 3-2-168>>

3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः

प्रथमावृत्तिः

TBD.

काशिका

नम्यादिभ्यः धातुभ्यः तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति। नम्रं काष्ठम्। कम्प्रा शाखा। स्मेरं मुखम्। अजस्रं जुहोति। हिंस्रं रक्षः। दीप्रं काष्ठम्। अजस्रम् इति जसु मोक्षणे नञ्पूर्वो रप्रत्ययान्तः क्रयासातत्ये वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

949 नमिकम्पि। नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम्। एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः। अजसधातोर्धातुपाठेऽदर्शनादाह– जसिर्नञ्पूर्व इति। `जसु मोक्षणे'अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः। निपातनाद्धातुना नञः समासे `नलोपो नञः' इति नलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.