Table of Contents

<<3-2-137 —- 3-2-139>>

3-2-138 भुवश् च

प्रथमावृत्तिः

TBD.

काशिका

भवतेर् धतोः छन्दसि विषये तच्छीलादिषु इष्णुच् प्रत्ययो भवति। भविष्णुः। योगविभागः उत्तरार्थः। चकारो ऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

920 भुवश्च। छन्दसीत्येवेति। भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ-। अण्यन्तार्थ आरम्भः।

तत्त्वबोधिनी

755 नैतदिति। चकारस्याऽनुक्तसमुच्चयार्थत्वमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.