Table of Contents

<<3-2-100 —- 3-2-102>>

3-2-101 अन्येष्वपि दृश्यते

प्रथमावृत्तिः

TBD.

काशिका

अन्येष्वपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते। सप्तम्याम् इत्युकतम सप्तम्याम् अपि दृश्यते। न जायते इति अजः। द्विर्जाताः द्विजाः। पञ्चम्याम् अजातौ 3-2-98 इत्युक्तं, जातवपि दृश्यते। ब्राह्मणजो धर्मः। क्षत्रियजं युद्धम्। उपसर्गे च संज्ञायाम् 3-2-99 इत्युक्तम्, असंज्ञायाम् अपि दृश्यते। अभिजाः, परिजाः केशाः। अनु कर्मणि 3-2-100 इत्युक्तम्, अकर्मण्यपि दृश्यते। अनुजातः अनुजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकन्तरे ऽपि। परितः खाता परिखा। आखा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

821 अन्येष्वपि दृश्यते। अज इति। न जात इत्यर्थः। द्विजो ब्राआहृण इति। द्विर्जात इत्यर्थ-। `मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना'दित्यादिस्मृतेरिति भावः। अपि शब्द इति। `सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः।

तत्त्वबोधिनी

676 अन्येष्वपि दृश्यते। `सप्तम्यां जने'रित्युक्तमसप्तम्यामपि दृश्यत इत्याह – अजः। द्विज इति। न जायत इत्यजः। द्विर्जातो द्विजः।`जन्मना जायते शूद्रः कर्मणा जायते द्विजः' इत्यभियुक्तोक्तेः। `पञ्चम्यामजातौ'इत्युक्तं, जातावपि दृश्य त इत्याह ब्राआहृणज इति। अपिशब्द इति। यत्तु `अन्तात्यन्ताध्वे'ति प्रकरणे `अन्यत्रापऽपि दृश्यते' इत्युपसङ्ख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्तम्। वस्तुतस्तु प्रकृतसूत्रस्थस्याऽपिग्रहणस्य सर्वपादिव्यभिचारार्थत्वात्तद्वार्तिकमेनैव गतार्थम्। विभावितं चेदं `इको गुणवृद्धी' इति सूत्रे जनेर्ड प्रक्रम्य `गमेरप्ययं डो वक्तव्यः' इति वदता भाष्यकारेण। एवं च प्रकृतसूत्रस्थम् संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां क्तक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत्। अत्राहुः–भाविनी संज्ञाऽत्र विज्ञायते,– `स भूते भवति यस्योत्पन्नस्य निष्ठेति संज्ञा भवतीत'त्याश्रयणे सामथ्र्यात् रक्तक्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अन्येष्वप्युपपदेषु जनेर्भूते डः स्यात् । Even when in composition with a पदम् which is other than the ones mentioned in the preceding rules (from 3-2-97 to 3-2-100), the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may be seen taking the affix “ड” provided the verbal root is used to denote an action in the past tense.

उदाहरणम् – ब्राह्मणेभ्यो जात इति ब्राह्मणज: (धर्म:)। Here the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is seen taking the affix “ड” in spite of the exclusion “अजातौ” in 3-2-98 पञ्चम्यामजातौ।

अनुजात इत्यनुज:। Here the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is seen taking the affix “ड” in spite of the requirement “कर्मणि” in 3-2-100 अनौ कर्मणि।

अपिशब्द: सर्वोपाधिव्यभिचारार्थ:। (from सिद्धान्तकौमुदी)

परित: खातेति परिखा।