TBD.
क्तक्तवतू निष्ठा 1-1-26 इत्युक्तं, स निष्ठसंज्ञकः प्रत्ययो भूते भवति। कृतम्। कृतवान्। भुक्तम्। भुक्तवान्। निष्ठायाम् इतरेतराश्रयत्वादप्रसिद्धिः। संज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः संज्ञाया भाव्यम्। न एष दोषः। भाविनी संज्ञा विज्ञायते। स भूते भवति, यस्योत्पन्नस्य निष्ठा इत्येषा संज्ञा भवति। समर्थ्यात् क्तक्तवत्वोर् विधानम् एतत्। आदिकर्मणि निष्ठ वक्तव्या। प्रकृतः कटं देवदत्तः। प्रकृतवान् कटं देवदत्तः।
TBD.
818 भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्. तत्र तयोरेवेति भावकर्मणोः क्तः. कर्तरि कृदिति कर्तरि क्तवतुः. उकावितौ. स्नातं मया. स्तुतस्त्वया विष्णुः. विश्वं कृतवान् विष्णुः..
823 निष्ठा। भूते इति धातोरिति चाधिकृतम्। तदाह– भूतार्थेत्यादि। भावकर्मणोः क्त इति। तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः। कर्तरि क्तवतुरिति। कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः। `तयोरेव कृत्यक्ते'त्यत्र `लः कर्मणी'त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते। ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति– स्नातं मयेति। अकर्मकत्वाद्भाव क्तः। स्तुतस्त्वया विष्णुरिति। सकर्मकत्वात्कर्मणि क्तः। कर्तरि क्तवतुमुदाहरति- - विष्णुर्वि\उfffदामिति।
–
वृत्तिः भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । The affix “निष्ठा” (ref. 1-1-26) may be used following a verbal root when denoting an action in the past tense.
तत्र तयोरेवेति (ref. 3-4-70) भावकर्मणोः क्तः । कर्तरि कृदिति (ref. 3-4-67) कर्तरि क्तवतुः । (from सिद्धान्तकौमुदी)
उदाहरणानि -
भावे प्रयोग: – स्नातं मया।
The प्रातिपदिकम् “स्नात” is derived from the verbal root √स्ना (ष्णा शौचे २. ४७). The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः। Subsequently the णकार: goes back to a नकार: as per the परिभाषा – निमित्तापाये नैमित्तिकस्याप्यपाय:। The remaining steps are as follows:
स्ना + क्त 3-2-102, 1-1-26, 3-4-70
= स्ना + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= स्नात । “स्नात” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
This is a भावे प्रयोगः। Hence the विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
स्नात + सुँ 4-1-2
= स्नात + अम् 7-1-24, 1-3-4
= स्नातम् 6-1-107
कर्मणि प्रयोग: – स्तुतो मया विष्णु:।
The प्रातिपदिकम् “स्तुत” is derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८). The ending ञकार: of the verbal root gets the इत्-सञ्ज्ञा by 1-3-3 and takes लोप: by 1-3-9. The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः। Subsequently the टकार: goes back to a तकार: as per the परिभाषा – निमित्तापाये नैमित्तिकस्याप्यपाय:। The remaining steps are as follows:
स्तु + क्त 3-2-102, 1-1-26, 3-4-70
= स्तु + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= स्तुत । “स्तुत” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
स्तुत + सुँ 4-1-2
= स्तुत + स् 1-3-2, 1-3-9
= स्तुत: 8-2-66, 8-3-15
Now let us take an example where the affix “क्तवतुँ” is used.
विश्वं कृतवान् विष्णु:।
The प्रातिपदिकम् “कृतवत्” is derived from the verbal root √कृ (डुकृञ् करणे ८. १०). The beginning “डु” of the verbal root gets the इत्-सञ्ज्ञा by 1-3-5 and takes लोप: by 1-3-9. The ending ञकार: of the verbal root gets the इत्-सञ्ज्ञा by 1-3-3 and takes लोप: by 1-3-9. The remaining steps are as follows:
कृ + क्तवतुँ 3-2-102, 1-1-26, 3-4-67
= कृ + तवत् 1-3-2, 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= कृतवत् । “कृतवत्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्। (Declined like the प्रातिपदिकम् “भगवत्”)।
कृतवत् + सुँ 4-1-2
= कृतवात् + सुँ 6-4-14
= कृतवा नुँम् त् + सुँ 7-1-70, 1-1-47
= कृतवान्त् + स् 1-3-2, 1-3-3, 1-3-9
= कृतवान्त् 6-1-68. “कृतवान्त्” gets पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= कृतवान् । By 8-2-23. Note: After this, 8-2-7 does not apply because of 8-2-1.