TBD.
अमा एव इत्यनुवर्तते। उपदंशस् तृतीयायाम् 3-4-47 इत्यतः प्रभृति यान्युपपदानि तानि अमा एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाशेयम्। यदमा एव तुल्यविधानम् उपपदं तस्य प्राप्ते, यथा उपदंशस् तृतीयायाम् 3-4-47 इति। यत् पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्यये ऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ 3-4-.59 इति। मूलकोपदंशं भुङ्क्ते, मूलकेन उपदंशं भुङ्क्ते। उच्चैःकारम् आचष्टे, उच्चैः कारम्। अमा एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु 3-4-66, पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्।
TBD.
–
774 तृतीयाप्रभृतीनि। तृतीयाशब्देन `उपदंशस्तृतीयाया'मित्यारभ्य`अन्वच्यानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि। अमेति, अव्ययेनेति चानुवर्तते। एवकारस्तु नानुवर्तते, अस्वरितत्वात्। अमेत्येतदव्ययविशेषणम्। तदाह– उपदंशस्तृतीयायामित्यादिना। मूलकोपदंशमिति। `उपदंशस्तृतीयाया'मिति णमुल्। अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम्। ननु `मूलकेने'त्यस्य `भुङ्क्ते' इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामथ्र्यात्कथमिह समास इति चेत्, मैवम्–उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामथ्र्यमुपपाद्यम्। तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः। उच्चैःकारमिति। उच्चेःकृत्वेत्यत्र तु `अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ'। `तत्र `उच्चैःकार'मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात् `अमैवाव्ययेने'त्यप्राप्तेऽनेन विकल्पः। समासपक्षे `आदिर्णमुल्यन्यतरस्या'मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम्। असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः। अमन्तेनेति किम् ?। पर्याप्तो भोक्तुम्। `पर्याप्तिवचनेषु' इति तुमुन्।
683 तृतीयाप्रभृतीन्यन्यतरस्याम्। उभयत्रविभाषेयम्। अमैव तुल्यविधानस्य प्राप्तेऽमा चान्येन च तुल्यविधानस्याऽप्राप्ते चारम्भात्। प्राप्ते यथा— `उपदशस्तृतीयायाम्'। मूलककेनोपदंशं। मूलकोपदंशम्। अप्राप्ते यथा– `अव्ययेऽयथाभिप्रेताख्याने'ति क्त्वाणमुलौ। उच्चैःकारम्। इह समासपक्षे कृदृत्तरपदप्रकृतिस्वरः–`आदिर्ण मुल्यन्यतरस्या'मित्याद्युदात्तत्वम्। असमासे तु उच्चैरित्यन्तोदात्तत्वम्। `उदि चेर्डै सिः'इति व्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तु `फिषः'इत्यस्य च प्रवृत्तेरित्याहुः। मनोरमायां तूच्चैरित्यन्तोदात्तः, स्वरादिषु तथा पाठादिति स्थितम्। `अमे'त्यनुवर्तत इत्याह– अमन्तेनेति। तेनेह न–पर्याप्तो भोक्तुम्। `पर्याप्तिवचनेष्वि'ति तुमुन्।
वृत्तिः “3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । The उपपदानि (ref. 3-1-92) mentioned in 3-4-47 उपदंशस्तृतीयायाम् etc (up to 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) compound optionally with a अव्ययम् provided the अव्ययम् ends in the affix ‘अम्’।
Note: काशिका – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। The सूत्रम् 2-2-21 prescribes optional compounding in both of the following cases -
(i) प्राप्ते – where the affix ‘अम्’ is the only affix prescribed by the same rule (for e.g. 3-4-47) which prescribes the उपपदम् and hence (compulsory) compounding would otherwise be prescribed by 2-2-19 (with the permission of 2-2-20)
(ii) अप्राप्ते – where the affix ‘अम्’ is prescribed along with another affix by the same rule (for e.g. 3-4-59) which prescribes the उपपदम् and hence compounding would otherwise be prohibited by 2-2-20
Example continued from 1-2-18
समास-पक्षे -
We form the compound between ‘रस अम्’ (which is the उपपदम्) and ‘वर्जम्’ using the सूत्रम् 2-2-19. Note: Here ‘रस अम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘रस अम्’ is placed in the prior position as per 2-2-30
‘रस अम् + वर्जम्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= रसवर्जम् 2-4-71. ‘रसवर्जम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39.
समासाभाव-पक्षे -
रस अम् + वर्जम्
= रसम् + वर्जम् 6-1-107
= रसं वर्जम् 8-3-23
तत्त्वबोधिनी – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -’ इति तुमुन्।