Table of Contents

<<2-2-19 —- 2-2-21>>

2-2-20 अमैवाव्ययेन

प्रथमावृत्तिः

TBD.

काशिका

पूर्वन समासे सिद्धे नियमार्थं वचनम्। अव्ययेनौपपदस्य यः समासः सो ऽमा एव भवति, न अन्येन। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारम् भुग्क्ते। लवनङ्कारं भुङ्क्ते। अमा एव इति किम्? कालसमयवेलासु तुमुन् 3-3-167 काले भोक्तुम्। एवकारकरणम् उपपदविशेषनार्थम्। अमा एव यत् तुल्यविधानम् उपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत् तुल्यविह्धानं तस्य मा भूत्। अग्रे भुक्त्वा, अग्रे भोजम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

773 अमैवाऽव्ययेन। `अमैवे'त्यनन्तरं तुल्यविधानमित्यध्याहार्यम्। तुल्यार्थैरतुलोपमाभ्या'मिति तृतीया। अमैव तुल्येति। अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत्। पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह–तदेवेति। विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात्। स्वादुङ्कारमिति। स्वादुंकृत्वेत्यर्थः। `ओदनं भुङ्क्ते' इति शेषः। `स्वादुमि णमु'लिति णमुल्। स्वादुशब्दस्य मान्तत्वं निपातनात्। `कृन्मेजन्तः' इत्यव्ययत्वम्। `तदेवे'ति नियमस्य प्रयोजनमाह–नेहेति। `उपपदसमास' इति शेषः। भोक्तुमिति। यद्यपि`कालसमयवेलासु' इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा। अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः। अमैवेति किमिति। अमैवेत्येकारः किमर्थ इति प्रश्नः। अमा चान्येन चेति। अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः।

तत्त्वबोधिनी

682 अमैवाव्ययेन। पूर्वेण सिद्धे नियमार्थमिदम्। तुल्यविधनमिति। एतच्चाध्याहारे लभ्यम्। तदेवेति। यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः। नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः। स्वादुङ्कारमिति। `स्वादुमि णमुल्'। अव्ययेनेति किम्?। कुम्भकारः। असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत। तथा सति `स्वादुङ्कारः'इत्यत्रैव समासः स्यान्न तु `कुम्भकार'इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात् `अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये'ति। तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः। तदेवेति किम्?। कालो भोक्तुम् समयोभोक्तुम्। `अमैवे'त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते। A उपपदम् (ref. 3-1-92) may be compounded with a अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमुँल्’ – ref. 3-4-26), provided also that the affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

Example continued from 1-2-18

अलम् + रुदित्वा Compounding (by 2-2-19) between अलम् + रुदित्वा is stopped by the नियम-सूत्रम् 2-2-20.
= अलं रुदित्वा 8-3-23