TBD.
दंश दशने, अस्माद् धतोरुपपूर्वात् तृतीयान्ते उपपदे णमुल् प्रत्ययो भवति। मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशम्। आऋद्रकोपदंशम्, आर्द्रकेणोपदंशम्। अत्र विकल्पेन उपपदसमासः तृतीयाप्रभृतीन्यन्तरस्याम् 2-2-21। मूलकादि चोपदंशेः कर्म। भुजेः करणम्। सर्वस्मिन्नेव अत्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति। मूलकेनोपदश्य भुङ्क्ते।
TBD.
–
–
1623 मूलकोपदंशमिति। अयमर्थः– मूलकेन भुङ्क्ते। किं कृत्वा ?। उपदस्य। किमुपदश्य ?। अर्थान्मूलकमिति संबध्यते। एतावतैवेति। शाब्दान्वयाऽभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः। वचनसामथ्र्यादिति। यदि हि तृतीयान्तेव शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हि `करणे हनः'इति वत् `उपदंशः करणे' इत्येव ब्राऊयात्। ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः। एतच्च मनोरमाग्रन्थानुसारेणोक्तम्।अत्र केचित्त–नन्वेवम् `उपदंशः कर्मणी'त्येव सूत्रमस्तु। अथवोपदंश इत्येवाऽस्तु। `उपमाने कर्मणी'त्यतः कर्मणीत्यनुवर्त्त्य कर्मण्युपपदे उपपूर्वकाद्दशेर्णमुलिति व्याख्यायतां, किमनया कुसृष्ट\उfffदेति। न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यं, करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात्। न च `तृतीयाप्रभृतीनी'ति सूत्रे `करणप्रभृतीनी'त्युक्ते नास्त्येव दोषः, `करणे हनःर' इत्यारभ्य विकल्प इति सन्देहवारणाय `व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षण'मिति परिभाषास्वीकारादिति वाच्यं, `तृतीयाप्रभृतीनी'ति सूत्रे `कर्मणिप्रभृतीनी'ति सूत्रे `कर्मणिप्रभृतीनी'त्युक्तेऽपि दोषाऽभावात्। `कर्मण्याक्रोशे कृञः खमुञ्' `कर्मण#इ दृशिविदो' रित्यारभ्य वा विकल्प इति सन्देहस्य `व्याख्यानतो विशेषप्रतिपत्तिः' रिति परिभाषया वारयितुं शक्यत्वात्। तस्मात् `उपदंशः करणे' इत्येव ब्राऊया'दिति मनोरमा चिन्त्येत्याहुः। वस्तुतस्तु `कर्मणिप्रभृतीन्यन्यतरस्या'मित्युक्ते `उपमाने कर्मणि चे'त्यतः कर्मणीत्यनुवर्त्त्य `उपदंश' इत्येव सूत्रमिति स्वीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात्। मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः। `उपदंशः कर्मणी'ति सूत्रस्वीकारपक्षेऽपि `मूलकोपदंश'मिति। `करणे प्रभृतीनी'ति मनरमोक्तौ तु समासाऽभावपक्षे `मूलकेनोपदंश'मिति सिध्यत्येव, करणतृतीयायाः प्रवृत्तेरिति दिक्।
TBD.