Table of Contents

<<2-1-51 —- 2-1-53>>

2-1-52 सङ्ख्यापूर्वो द्विगुः

प्रथमावृत्तिः

TBD.

काशिका

तद्धितार्थौत्तरपदसमाहारे च 2-1-51 इत्यत्र यः सङ्ख्यापूर्वः समासः स द्विगुसंज्ञो भवति। तद्धितार्थे तावत् पञ्चसु कपालेशु संस्कृतः पञ्चकपालः। दशकपालः। संस्कृतं भक्षाः 4-2-16 इति इह अण्, तस्य द्विगोर् लुगनपत्ये 4-1-88) इति लुक्। उत्तरपदे पञ्चनावप्रियः। नावो द्विगोः (*5,4.99 इति समासान्तो भवति। समाहारे पञ्चपूली। द्विगोः 4-1-21 इति ङीब् भवति। द्विगुप्रदेशाः द्विगोः 4-1-21 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

944 तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्..

बालमनोरमा

720 अत्र समासे सति `गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह–संख्यापूर्वो द्विगुः। सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः। `तद्धितार्थ' इति पूर्वसूत्रविहितसमासोऽन्यपदार्थः, प्रत्यासत्तेः, तदाह–तद्धितार्थेत्यत्रोक्तस्त्रिविध इति। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः, स द्विगुरिति यावत्। तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद्द्विगुसंज्ञा स्थिता। तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। `संस्कृतं भक्षाः' इत्यण्। `द्विगोर्लुगनपत्ये' इति लुक्। उत्तरपदे यथा,-पञ्चनावप्रियः। `नावो द्विगो'रिति समासान्तष्टच्।

तत्त्वबोधिनी

638 सङ्ख्यापूर्वो द्विगुः। अत्रोक्त इति। अयं भावः–पूर्वसूत्रविषय एवेयं संज्ञा,`अनन्तरस्यैवे'ति न्यायात्। एतदर्थमेव हि सूत्रद्वयं कृतम्, अन्यथा `दिक्संख्यं संज्ञायां तद्धितार्थोत्तरपदसमाहारेष्वि'त्येव ब्राऊयात्। तेन `सप्तर्षय'इत्यत्र `इगन्तकालकपाले'त्यादिना पूर्वपदप्रकृतिस्वरो न भवति, किन्तु समासान्तोदात्त एव। तथा च लक्ष्यं, `सप्त ऋषयस्तपसे ये निषेदुः'। `सप्तऋषीणां सुकृतां यत्र लोकः'इत्यादि। त्रिविधः संख्यापूर्व इति। तद्धितार्थे विषये, उत्तरपदे चपरतः, समाहारे च वाचच्ये संख्यापूर्वो यः समासः स इत्यर्थः। तद्धितार्थे यथा–पञ्चकपालः। `संस्कृतं भक्षाः' इत्यणो `द्विगोर्लुगनपत्ये'इति लुक्। उत्तरपदे यथा–पञ्चनावप्रियः। `नावो द्विगोः'इति समासान्तष्टच्। समाहारे–पञ्चपूली। `द्विगोः'इति ङीप्।

Satishji's सूत्र-सूचिः

TBD.