Table of Contents

<<2-1-52 —- 2-1-54>>

2-1-53 कुत्सितानि कुत्सनैः

प्रथमावृत्तिः

TBD.

काशिका

कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायाम् अयं समास इष्यते। विशेषणं विशेष्येण बहुलम् 2-1-57 इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभः इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापरः। मीमांसकदुर्दुरूढः। नास्तिकः। कुत्सितानि इति किम्? वैयाकरणश्चौरः। न ह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैः इति किम्? कुत्सितो ब्राह्मणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

722 कुत्सितानि। वर्तमाने क्तः, व्याख्यानात्। तदाह–कुत्स्यमानानीति। कुत्सनैरिति करणे ल्युट्। प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। वैयाकरणखसूचिरिति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते। अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः। खसूचनं निन्दाहेतुः। मीमांसकदुर्दुरूट इति। `दुल उत्क्षेपे'चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः। `बहुलमन्यत्रापी'ति णेर्लुक्। रलयोरभेदाद्रः। यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते। विशेष्यस्य पूर्वनिपातार्थं सूत्रम्। विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.