Table of Contents

<<2-1-50 —- 2-1-52>>

2-1-51 तद्धितर्थौत्तरपदसमाहारे च

प्रथमावृत्तिः

TBD.

काशिका

दिक्सङ्ख्ये इत्यनुवर्तते। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। तद्धितार्थे तावत् पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसंज्ञायां ञः 4-2-107, पौर्वशालः। आपरशालः। उत्तरपदे पूर्वशालाप्रियः। अपरशालाप्रियः। समाहारे दिक्शब्दो न सम्भवति। सङ्ख्या तद्धितार्थे पाञ्चनापितिः। पञ्चकपालः। उत्तरपदे पञ्चगवधनः। दशगवधनः। समाहारे पञ्चपूली। दशपूली। पञ्चकुमारि। दशकुमारि। स नपुंसकम् 2-4-17 इति नपुंसकत्वम्। ह्रस्वो नपुंसके प्रातिपदिकस्य 1-2-47 इति ह्रस्वत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

939 तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्. पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)..

बालमनोरमा

718 तद्धितार्थ। एकापि सप्तमी विषयभेदाद्भिद्यते। तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते। उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमी पर्यवस्यति। समाहारांशे तु वाच्यतया आधारत्वे सप्तमी। पूर्वसूत्राद्दिक्संख्ये इत्यनुवर्तते। तदाह–तद्धितार्थे विषये इति। तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः। तद्धिते भविष्यतीति यावत्। प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। तद्धितार्थे दिक्समासमुदाहरति–पूर्वस्यामिति। समासे कृते इति। पूर्वस्यां शालायां भव इति विग्रहे `तद्धितार्थ' इति समासे कृते `दिक्पूर्वपदा'दिति ञप्रत्यते कृते `यस्येति चे'त्याकारलोपे आदिवृद्धिरिति भावः।

पुंवत्त्वमिति तदर्थः। यदि तु `तद्धिते परे दिक्सङ्ख्ये समस्येते' इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः। `तद्धितार्थे वाच्ये दिक्संख्ये समस्येते' इति तु न व्याख्यातं, तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाऽभावात्। अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम्। आपरशाल इति। अपरस्यां शालायां भव इति विग्रहः। समासादि पौर्वशालवत्। \र्\नुत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना। ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वादुत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह–तेन शालाशब्दे आकार उदात्त इति। अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः। असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः। ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह–दिक्ष्विति। दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः। समाहारे दिक्पूर्वपदसमासो नास्तीति यावत्।

उदाहरति-षाण्मातुर इति। मातुरुत्सह्ख्यासम्भद्रपूर्वायाः' इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च। अथ उत्तरपदे परत उदाहरति-पञ्चगाव इति। अवान्तरतत्पुरुषस्येति। उत्तरपदे परतो विहितस्येत्यर्थः। विकल्पे प्राप्ते इति। `महाविभाषाधिकारा'दिति शेषः। ततश्च पञ्चगोशब्दयोस्तत्पुरुषाऽभावपक्षे `गोरतद्धितलुकी'ति तत्पुरुषप्रयुक्तटजभावे `पञ्चगोधन' इत्यपि स्यादिति भावः।

वक्तव्यमित्यर्थः। समासग्रहणं तु संपातायातम्, अनन्वयात्, उत्तरपदे परतः समाससंज्ञया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात्।

तत्त्वबोधिनी

636 तद्धितार्थे विषये इत्यादि। यदि तु `तद्धितार्थे वाच्ये'इति व्याख्यायेत, तर्हि `पौर्वशाल'इत्यादौ तद्धितो न स्यात्, तदर्थस्य समासेनैवलोक्तत्वात्। `द्विगोर्लुगनपत्ये'इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः। `तद्धिते परे'इति तु न व्यख्यायमेव, तद्धिते परतः समासः, समासे कृते `दिक्पूर्वपदा'दित्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात्। समाहारे च वाच्ये इति। तेन `पञ्चगव'मित्यादौ समासेनैव समाहारस्योक्तत्वात्समूहार्थप्रत्ययो नोत्पद्यते। अन्यथा अत्र `गोरतद्धितलुकी'ति टज्न स्यात्, समूहिकप्रत्ययस्य `द्विगोर्लुगनपत्ये'इति लुक्?प्रवृत्तेरिति भावः। पुंवद्भावे पुंव्द्भावः। सर्वनाम्ना इति। एतच्च पूर्वापरोदाहरणान्वयि। यद्यपि `स्त्रियाः पुंव'दित्येनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तर पूर्वेत्याद्यर्थं `सर्वनाम्न'इति वचनमावश्यकं, प्रतिपदोक्तत्वादिहापि तदुपन्यासो न्याय्य इति भावः। वृत्तिमात्रे इति। तद्धितवृत्तौ समासवृत्तौ चेति कैयटः। आकार उदात्त इति। असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमेव स्यादिति भावः। षाण्मातुर इति। `मातुरुत्सङ्ख्यासंभद्रपूर्वायाः'इत्युदादेशः। `अनपत्ये'इत्युक्तेः `द्विगोर्लु'गिति लुग् न। विकल्पे प्राप्त इति।`महाविभाषये'ति शेषः। ततश्च तत्पुरुषप्रयुक्तटजभावे `पञ्चगोधन'इत्यपि स्यादिति भावः। मनोरमायां तु–विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचन'मिति प्राचां ग्रन्थमनुसृत्योक्तम्। वस्तुतस्तु त्रयाणां समासे कृतेऽन्यपदार्थोपसङ्क्रमेण परस्पर संबन्धाऽभावाद्द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां त्रिपदे बहुव्रीहौकृते पूर्वयोर्नित्यं द्वन्द्वः, तेन `द्वन्द्वाच्चुदषहान्ता'दिति समासान्तष्टजपि नित्य एव।

Satishji's सूत्र-सूचिः

TBD.