Table of Contents

<<4-2-106 —- 4-2-108>>

4-2-107 दिक्पूर्वपदादसंज्ञायां ञः

प्रथमावृत्तिः

TBD.

काशिका

असंज्ञायाम् इति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकातसंज्ञाविषयात् ञः पत्ययो ह्बवति शैषिकः। अणो ऽपवदः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायाम् इति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। दिक्षङ्ख्ये संज्ञायाम् 2-1-50 इति समासः। प्राचां ग्रामनगराणाम् इति उत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

940 अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्..

बालमनोरमा

1309 दिक्पूर्वपदात्। पञ्चम्यर्थे सप्तमी। असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः। पौर्वशाल इति। पूर्वस्यां शालायां भव इत्यर्थे `तद्धितार्थ' इति समासाञ्ञः।

तत्त्वबोधिनी

1048 दिक्पूर्व। `असंज्ञायामि'त्यत्र सौत्रत्वात्पञ्चम्यर्थे सप्तमीत्याशयेनाह— संज्ञाभूताया इति।

Satishji's सूत्र-सूचिः

TBD.