Table of Contents

<<2-4-16 —- 2-4-18>>

2-4-17 स नपुंसकम्

प्रथमावृत्तिः

TBD.

काशिका

यस्य अयम् एकवद् भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर् द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि पाणिपादम्। शिरोग्रीवम्। परलिङ्गतापवादो योगः। अकारान्तौत्तरपदो द्विगुः स्त्रियां भाष्यते। पञ्चपूली। दशरथी। वा आबन्तः स्त्रियाम् इष्टः। पञ्चखट्वम्, पञ्चखट्वी। अनो नलोपश्च वा च द्विगुः स्त्रियाम्। पञ्चतक्षम्, पञ्चतक्षी। पात्रादिभ्यः प्रतिषेधो वक्तव्यः। पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

946 समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्. पञ्चानां गवां समाहारः पञ्चगवम्.

बालमनोरमा

811 स नपुंसकं। `द्विगुरेकवचन'मिति द्विगुः, द्विगुः, `द्वन्द्वश्च प्राणी'ति द्वन्द्वश्च तच्छब्देन परामृश्येते। तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात्। तदाह–समाहारे इति। पञ्चगवमिति। पञ्चानां गवां समाहार इति द्विगुः। दन्तोष्ठमिति। दन्ताश्च ओष्ठौ चेति विग्रहः। `द्वन्द्वश्च प्राणी'ति समाहारद्वन्द्वः। \र्\नकारान्तेति। अकारान्तमुत्तरपदं यस्येति विग्रहः। `स नपुंसक'मित्यस्यापवादः। पञ्चमूलीति। समाहारद्विगुः, स्त्रीत्वं, `द्विगोः' इति ङीप्। \र्\नाबन्तो वेति। `स्त्रियां वे'ति वक्तव्यमित्यर्थः। पञ्चखट्वमिति। समाहारद्विगुः। नपुंसकत्वे ह्यस्वः। पञ्चखट्वीति। उपसर्जनह्यस्वत्वे अदन्तत्वात्, `द्विगोः' इति ङीप्। \र्\ननो नलोपश्चेति। `अन' इत्यावर्तते। एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति। तदन्तविधिः। अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपः स्यादित्यर्थः। वाग्रहणं स्त्रियामित्यत्रैव संबध्यते, न तु नलोपेऽपि तेन स्त्रीत्वाऽभावेऽपि नलोपः। पञ्चतक्षीति। पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं नलोपः, `द्विगोः' इति ङीबिति भावः। पञ्चतक्षमिति। समाहारद्विगुः। स्त्रीत्वाऽभावपक्षे `स नपुंसक'मिति नपुंसकत्वं, नलोप इति भावः। न चान्तर्वर्तिर्नी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् `न लोपः प्रातिपदिके'त्यनेन नलोपो भविष्यतीति वाच्यम् `उत्तरपदत्वे चे'ति प्रत्ययलक्षणनिषेधात्। समाहारद्विगोर्न स्त्रीत्वमिति वक्तव्यमित्यर्थः। पञ्चपात्रं त्रिभुवनं चतुर्युगमिति। स्त्रीत्वाऽभावे `स नपुंसक'मिति नपुंसकत्वमिति भावः।

नपुंसकत्वं वक्तव्यमित्यर्थः। `रात्राह्ने'त्यस्यापवादः। पुण्याहमिति। पुण्यम् अहरिति कर्मधारयः, `राजाहः' इति टच्, टिलोपः। `उत्तमैकाभ्यां चे'त्यत्यह्नादेशनिषेधः। सुदिनाहमिति। सुदिनम् अहरिति कर्मधारयः, टच्, टिलोपः। प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम्। `नपुंसकत्वं वक्तव्य'मिति शेषः। संख्याव्ययेति समाहारद्वन्द्वः। संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी। पर इति शेषः। पथ इति कृतसमासान्तादकारान्तात्प्रथमा। तदाह–सङ्ख्याव्ययादेरिति। परवल्लिङ्गतापवादः। त्रिपथमिति। `ऋक्पूः' इति अप्रत्ययः, टिलोपः। एवं विपथमित्यपि। `प्रादयो गताद्यर्थे' इति समासः। सुपन्था अतिपन्था इति। `स्वती पूजाया'मिति समासः। `न पूजना'दिति समासान्तनिषेधः। आवश्यकत्वादनेन सिद्धे अपथं नपुंसक'मिति न कार्यम्।

स्त्रीत्वपुंस्तवयोरनभिव्यक्तौ `उभयोरन्तरं यच्च तदभावे नपुंसक'मिति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात्।अत एव `दाण्डिनायने'ति सूत्रभाष्ये `एकश्रुतिः स्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामे'त्युक्तम्। मृदु पचतीति। क्रियाविशेषणमिदं द्वितीयान्तम्। पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः। तत्र विक्लित्त्यंशे मृदुत्वमन्वेति। विक्लित्तिश्चव्यापारे साध्यत्वेनान्वेति। तथाच धातूपात्तव्यापारं प्रति कर्मीभूतेन विक्लित्त्यंशेन सामानाधिकरण्यान्मृद्विति द्वितीया। यत्र तु धात्वर्थः करणत्वेनान्वेति `यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्गं कुर्यादित्यर्थः। तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव `ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादावित्यन्यत्र विस्तरः। प्रातः कमनीयमिति। रमणीयमित्यर्थः। अत्रापि `प्रात'रित्यव्ययस्य विशेष्यस्याऽलिङ्गत्वात्तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाऽभावान्नपुंसकत्वमेवेति भावः। इदं चाऽनियतलिङ्गविषयम्। तेन आदिं पचति, प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात्।

तत्त्वबोधिनी

712 स नपुंसकम्। `अनन्तरस्ये'ति न्यायोऽत्र नाश्रीयते, तथात्वे द्विहुसङ्ग्रहो न स्यादित्याशयेनाह—द्विगुद्र्वन्द्वश्चेति।अत्र व्याचक्षते– प्रकरणादेवानुवाद्यलाभे `स' ग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम्, तेन `सञ्ज्ञापरिभाष'मित्यादि सिद्धमिति। पञ्चगवमिति। `तद्धितार्थ'इत्यादिना समाहारे द्विगुः। दन्तोष्ठमिति। `द्वन्द्वश्च प्राणी'त्यादिना समाहारे द्वन्द्वः। \र्\नाबन्तो वा। पञ्चखट्वमिति नपुंसकह्यस्वः। पञ्चखट्वीति। उपसर्जनह्यस्वस्वत्वे सत्यदन्तत्वात् `द्विगो'रिति स्त्रीत्वपक्षे ङीप्।\र्\ननो नलोपश्च वा द्विगुः स्त्रियाम्। अनो नलोपश्चेति। `उत्तरपदत्वे चापदादिविधौ'इति प्रत्ययलक्षणप्रतिषेधादप्राप्ते नलोप इति भावः। इह वाशब्दः स्त्रियामित्यनेन संबध्यते, नतु पूर्वेण। तेन नित्यो नलोप इत्याह– पञ्चतक्षमित्यादि। शेषः। आकृतिगणोऽयम्। प्रशस्तपर्यायः सुदिशब्दः, `सुदिनासु समासु कार्यमेतत्प्रविचिन्वीत विशेषतः स्वयं च'इत्यादिप्रयोगात्। संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः। त्रपथं विपथमिति,— `ऋक्पूरब्धूः'इत्यप्रत्ययः। सुपन्थाः अतिपन्था इति। `न पूजना'दिति समासन्तनिषेधः। कथं तर्हि `व्यध्वो दुरध्वा विपथः तदध्वा कापथः समाः'इत्यमर इति चेत्, प्रमाद एवायमिति बहवः। मनोरमायां तु `पथे गतौ'इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति। तथा च त्रिकाण्डशेषः—`वाटः पथश्च मार्गः स्या'दिति। तेन पथशब्देन समासे पुंस्त्वमुपपन्नम्। न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्, `ईषदर्थे चे'ति तत्सम्भवात्, कुत्सायामर्थतः पर्यवसानादिति स्थितम्। केचित्तु—`पथः संख्ये'ति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचाद्यजन्तस्येत्यत्र बीजाऽभावाद्विपथः कापथ इति प्रयोगो दुरुपपाद एवेत्याहुः। अत्र माधवः–`परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र। विपथा नगरी। बहुव्रीहिरयम्। पन्तानमतिक्रान्ता अतिपथा। इहापि न, `द्विगुप्राप्ते'त्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति। नपुंसकम्। सामान्ये नपुंसकमिति। अनियतलिङ्गविषयकमिदम्। तेनादिं पचति, प्रातरादिरिति पुंस्त्वमेव। मृदु पचतीति। क्रियाविशेषणत्वाद्द्वितीयान्तम्। धातुपात्तभावनां प्रति हि फलांशः कर्मीभूतः। तथा च फलसामानाधिकरण्येद्वितीया। अतएव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण्। यत्र तु भावनां प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव, `ज्योतिष्टोमेन यजेते'त्यत्र यथा। एतच्च `तरणे यजः' इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम्।

Satishji's सूत्र-सूचिः

TBD.