Table of Contents

<<2-1-3 —- 2-1-5>>

2-1-4 सह सुपा

प्रथमावृत्तिः

TBD.

काशिका

सुपिति वर्तते। सुपिति सह इति सुपा इति च त्रयमपि अधिकृतं वेदितव्यम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र इदम् उपस्थितं द्रष्टव्यम्। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः (2-1-24) इति। द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

909

सिद्धान्तकौमुदी

<< 2-1-32-4-71 >>
६४९ ’सह’ इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभास्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । ’सुपा’ । सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥

बालमनोरमा

641 सह सुपा। `सुबामन्त्रिते' इत्यतः `सु'बित्यनुवर्तते। सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति। एवं सति `पर्यभूषय'दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात्। तत्राह–सहेति योगो विभज्यत इति। समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः। `सहे'त्यत्र `सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। `समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते। तदाह–सुबन्तमित्यादिना। समस्यत इति। एकीक्रियते प्रयोक्तृभिरित्यर्थः। समाससंज्ञां लभत इति यावत्। केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः। कर्तरि लट्। `उपसर्गादस्यत्यूह्रो'रित्यात्मनेपदम्। समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा। तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः। ननु `घटो भवती'त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह–योगविभागस्येति। कतिपयेति। कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः।पर्यभूषयदिति। समासान्तोदात्तत्वे शेषनिघात इति `कुगति' इति सूत्र#ए कैयटः। `देवो देवान् क्रतुना पर्यभूषय'दित्यत्र तु स्वरव्यत्ययो बोध्यः। अनुव्यचलदिति। `अचल'दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः। नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात्। अत एव `महिष्या अजायाश्च क्षीर'मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः। सुपा। `सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते। `समास' इत्यधिकृतम्। तदाह–सुप्सुपेति। सुबन्तं सुबन्तेनेत्यर्थः। ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता। समासत्वात्प्रातिपदिकसंज्ञेति। `कृत्तद्धितसमासाश्च इत्यनेने'ति शेषः।

तत्त्वबोधिनी

569 योगो विभज्यत इति। `सुबामन्त्रितो—' इत्यतः सुबित्यनुवर्तते, तदाह— सुबन्तमिति। समस्यत इति। सपूर्वादस्यतेः कर्णि तङ्। आचार्येणेति शेषः। समर्थेनेति तु सहयोगे तृतीया। समसनक्रियां प्रति सुबन्तं कर्म, न तु कर्तृ। यद्यपि सुबन्तस्य कर्तृत्वाभ्युपगमेऽपि `उपसर्गादस्यत्यूह्योः' इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, तथापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः। बाहुलकं तु अगतिकगतिरिति कर्मत्वाभ्युपगम एव ज्यायान्। स चेति। एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्ते। छन्दस्येवेति। यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वाद्युत्पत्तिः स्यात्। लिङ्गसर्वनामनपुंसकतामभ्युपेत्य `स्वमोर्नपुंसकात्' इति लुकि कृतेऽपि `ह्यस्वो नपुंसके—'इति ह्यस्वः स्यादित्यादि दूषणं `कर्मणा यमभिप्रैती'ति सूत्रेऽस्माभिरुद्भावितम्। अनुव्यचलदिति। सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः। समासान्तोदात्तत्वे शेषनिघात इति `कुगति—' इति सूत्रे कैयटः।

Satishji सह सुपा - योग-विभागः in order to justify the rare compounding with a तिङन्तम् पदम् । e.g. पर्यभूषयत् । अनुव्यचलत् ॥ Taking as विधिः सुत्र allows us to account for the miscellaneous category of compounds, सुप् समर्थेन सुपा सह समस्यते ।e.g. bg11-45 अदृष्टपूर्वम् , mainly adverb compounds. ॥ Taking as अधिकार सूत्रम्  is the expected meaning, the entire समास (2-2-29) प्रकरणम्, of course 2-1-4 is a अधिकार सूत्रम् । सुबन्तम् समर्थेन सह समस्यते → ’सह’ इति योगो विभज्यते । सुप्सुपा सह समस्यते । → ’सुपा’ इति