TBD.
परशब्दो ऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः सन्निकर्षः, वर्णानाम् अर्धमात्राकालव्यवधानं, स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः सिंहितायाम् (6-1-72) इत्येवम् आदयः।
TBD.
–
30 परः संनिकर्षः। परः=अतिशयितः। `दूरानात्मोत्तमाः पराः' इत्यमरः। सन्निकर्षः=सामीप्यम्। अर्धमात्राधिककालव्यवधानाऽभावः। अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात्। तदेतदभिप्रेत्याह-अतिशयित इत्यादिना।
917 लुक् स्त्रियाम्। विहितस्येति। `परिशेषितस्य वे'ति बोध्यम्। एतच्च `आङ्गिरसे'इत्यनुवृत्त्या लभ्यते। यद्यपि `वतण्डाल्लुक् स्त्रिया'मित्येकसूत्रकरणेऽपि `आङ्गिरसे'इत्यनिवृत्त्या अनाङ्गिरसे यञणोर्लुगभावात् स्त्रियामिष्टं सिद्द्यति, तथापि पुंस्याङ्गिरसे यञणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम्। ऋषित्वादिति। न चैवं `ऋष्यन्धके'त्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थं इति शङ्क्यम्। गर्गादिपाठेन यञा बाधात्तन्निवृत्तये तत्पाठस्यावश्यरकत्वात। ष्यङ्नेति। `अणिञोरनार्षयो'रिति सूत्रेणेति भावः।
Examples दधि + अत्र 6-1-77 > दध्यत्र । मधु + अत्र 6-1-77 > मध्वत्र ॥ ’संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥’
TBD.