Table of Contents

<<1-3-92 —- 1-4-1>>

1-3-93 लुटि च क्लुपः

प्रथमावृत्तिः

TBD.

काशिका

वृतादित्वादेव स्यसनोर् विकल्पः सिद्धो लुटि विधीयते। चकारस् तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच् चकरः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च क्लृपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्\उ0325प्सति। कल्पिता। कल्पिश्यते। अकल्पिश्यत। चिकल्पिशते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

190 लुटि च क्लृपः। चकारात् `वृद्भ्यः सस्यनो'रित्यतः स्यसनोरित्यनुकृष्यते, `शेषात्कर्तरी'त्यतः परस्मैपदमिति, `वा क्यषः' इत्यतो वेति च। तदाह– लुटि स्यसनोरित्यादिना।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.