TBD.
लघुनि धात्वक्षरे परतो यो ऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे। सन्यतः 7-4-79 इत्युक्तम्, चङ्परे ऽपि तथा। अचीकरत्। अपीपचत्। ओः पुयण्ज्यपरे 7-4-80 इत्युक्तम्, चङ्परे ऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा 7-4-81 इत्युक्तम्, चङ्परे ऽपि तथा। असिस्रवत्, असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत्, अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत्, अचुच्यवत्। लुघुनि इति किम्? अततक्षत्। अररक्षत्। जागरयतेः अजजागरत्। अत्र केचिद् गशब्दम् लभुमाश्रित्य सन्बद्भावम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यम् अभ्यासेन न अस्ति इति व्यवधाने ऽपि वचनप्रामाण्याद् भवितव्यम्, तदसत्। येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातित्येकेन व्यवधानम् आश्रीयते, न पुनरनेकेन। यद्येवम्, कथम् अचिक्षणतिति? आचार्यप्रवृत्तिर् ज्ञापयति भवत्येवं जातीयकानाम् इत्त्वम् इति। यदयं तद् बाधनार्थं सम्रत्यादीनाम् अत्वम् विदधाति। चङ्परे इति किम्? अहं पपच। परग्रहणं किम्? चङि एव केवले मा भूत्, अचकमत। अनग्लोपे इति किम्? अचकथत्। दृषदमाख्यातवानददृषत्। वादितवन्तं प्रयोजितवानवीवदतित्यत्र यो ऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्परे इति णिजातेर् निमित्तत्वेन आक्षेपात्, ततो ऽन्यस्य अको लोपः परिगृह्यते। मीमादीनाम् अत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम्। किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि। तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति।
TBD.
534 चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति..
–
130 चङ्पर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुरुआउवामपि चङ्परत्वात्। अत आह- - `अह्गसंज्ञानिमित्तमिति। अङ्गस्याभ्यास इति। अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः। अङ्गस्येति नावर्तत इति। अ\उfffद्स्मस्तु व्याख्याने `चङ्परे' इत्येतावतैव णिरिति लभ्यते, श्रिद्रुरुआउषु परेषु अङ्गत्वाऽसंभवादतो व्याचष्टे– चङ्परे णौ यदङ्गमिति। चङपरे इत्यस्यैव व्याख्यानं `णा'विति ज्ञेयम्। अनग्लोपे किम् ?। अचकथत्।
वृत्ति: चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति । The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
Example continued from 6-1-11
च कमि + अ + त । Note: By 7-4-93 the operations on the अभ्यासः “च” are carried out as if the affix “सन्” follows the अङ्गम्।
Example continued under 7-4-79