Table of Contents

<<1-3-89 —- 1-3-91>>

1-3-90 वा क्यषः

प्रथमावृत्तिः

TBD.

काशिका

लोहितादिडाज्भ्यः क्यष् 3-1-13 इति वक्ष्यति। तदन्ताद् धातोर् वा परस्मैपदं भवति। लोहितायति, लोहितायते। पटपटायति, पटपटायते। अथ अत्र प्रस्मैपदेन मुक्ते कथम् आत्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदम् 1-3-12 इत्येवम् आदिना प्रकर्णेन तन् नियतम्? एवं तर्हि आत्मनेपदम् एव अत्र विकल्पितं विधीयते, तच् च अनन्तरं परस्मैपदप्रतिषेधेन सनिधापितम् इह सम्बध्यते। तेन मुक्ते, शेषात् कर्तरि परस्मैपदम् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

494 वा क्यषः। परस्मैपदमिति। `शेषात्कर्तरी'त्यस्तदनुवृत्तेरिति भावः। लोहितायतीति। अलोहितो लोहितो भवतीत्यर्थः। अत्रेति। `लोहितादी'ति सूत्रे इत्यर्थः। तच्चेति। अभूततद्भाविषयत्वमित्यर्थः। असंभवादिति। अव्यक्तानुकरणड्डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्वस्य भङ्गापत्तेरिति भावः। नाप्यादिशब्दग्राह्राणामिति। `श्यामादिशब्दाना'मिति शेषः। तस्येति। आदिग्रहणस्येत्यर्थः। आदिगर्हणप्रख्याने प्रमाणं दर्शयति– तथा चेति। आदिग्रहणमपनीय लोहितशब्दाड्डाजन्तेभ्यश्च क्यष्वचनं कर्तव्यम्। इतराणि = लोहितादिगणपठितानि श्यामादीनि प्रतिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः। एवं च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम्। तस्यापीति। आदिग्रहणस्येव क्यषः ककारस्यापि विवक्षिते सति `डाचि विवक्षिते द्वे बहुल'मिति द्वित्वे नित्यमाम्रेडिते `डाची'ति पूर्वखण्डान्तस्य तकारस्य , उत्तरखण्डादेः पकारस्यच पररूपे एकस्मिन् पकारे, डित्त्वाट्टिलोपे, पटपटाशब्दाड्डाजन्तात् क्यषि तदन्ताल्लडादीति भावः। `अभूततद्भावे' इति तु नात्र संबध्यते इत्युक्तम्। न ह्रपटच्छब्दः पटच्छब्दो भवतीति युज्यते। ननु कृभ्वस्तियोगाऽभावादिह कथं डाजित्यत आह– कृभ्वस्तियोगं विनापीति। भवत्यर्थसत्तामात्रेणेत्यर्थः। कुत इत्यत आह– डाजन्तादिति। तद्भाष्येति। `भृशादिष्वितराणी'त्युक्तवार्तिकतद्भाष्यविरुद्धमित्यर्थः। तस्मादिति। उक्तवार्तिकभाष्यविरोधात्तेभ्यः श्यामादिभ्यो भृशादित्वलक्षणः क्यङेव नतु क्यषित्यर्थः। ततश्च `वा क्यषः' इत्यस्याऽप्रवृत्तेर्ङित्त्वादात्मनेपदमेवेति मत्वाऽऽह– श्यामायते इति। श्यामो भवतीत्यर्थः। ननु देवदत्तः सुखायते इति कथम्?, देवदत्तस्य सुखत्वाऽभावादित्यत आह– सुखादय इति. श्यामादिषु ये सुखदुःखादिशब्दा गुणवनचास्ते सुखादिगुणवति वत्र्तन्ते इत्यर्थः। एवंच `सुखायते' इत्यस् सुखवान् भवतीत्यर्थः। एवं `दुखायते' इत्यादावपि। ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात्स्यादित्यत आह— लिङ्गविशिष्टेति।

तत्त्वबोधिनी

423 तस्येति। आदिशब्दस्येत्यर्थः। भृशादिष्वितराणि। तस्यापीति। क्यषः ककारस्येत्यर्थः। एतेन `नः क्ये' क्यस्य विभाषे'ति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः। लोहनीयतीति। क्यङि सति तङेव स्यात्, `क्यङ्मानिनोश्चे'ति पुंवद्भावश्चेति भावः।

Satishji's सूत्र-सूचिः

TBD.