Table of Contents

<<3-1-12 —- 3-1-14>>

3-1-13 लोहितादिडाज्भ्यः क्यष्

प्रथमावृत्तिः

TBD.

काशिका

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति, लोहितयते। डाजन्तेभ्यः पटपटायति, पटपटायते। लोहितडाज्भ्यः क्यष् वचनम्, भृशादिष्वितराणि। यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस् तु क्यषेव भवति। वर्मायति, वर्मायते। निद्रयति, निद्रायते। करुणायति, करुणायते। कृपायति, कृपायते। आकृतिगणो ऽयम्। यथा च ककारः सामान्यग्रहणार्थो ऽनुबध्यते नः क्ये 1-4-15 इति। न हि पठितानां मध्ये नकारान्तः शब्दो ऽस्ति। कृभ्वस्तिभिरिव क्यषा ऽपि योगे डाज् भवति इत्येतदेव वचनम् ज्ञापकम्। अच्वेः इत्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते। लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

493 लोहितादि। भवत्यर्थे इति। `भृशादिभ्यो भुवी'त्यतो भुवीत्यनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.