TBD.
वा इत्येव। द्युत दीप्तौ। तत्साहचर्याद् लुठादयो ऽपि कृपू पर्यन्तास् तथा एव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान् नित्यम् एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङि इति किम्? द्योतते।
TBD.
540 द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्. पुषादीत्यङ्. अद्युतत्, अद्योतिष्ट. अद्योतिष्यत.. एवं श्विता वर्णे.. 5.. ञिमिदा स्नेहने.. 6.. ञिष्विदा स्नेहनमोचनयोः.. 7.. मोहनयोरित्येके. ञिक्ष्विदा चेत्येके.. रुच दीप्तावभिप्रीतौ च.. 8.. घुट परिवर्तने.. 9.. शुभ दीप्तौ.. 10.. क्षुभ संचलने.. 11.. णभ तुभ हिंसायाम्.. 12-13.. स्रंसु भ्रंसु ध्वंसु अवस्रंसने.. 14-15-16.. ध्वंसु गतौ च.. स्रम्भु विश्वासे.. 17.. वृतु वर्तने.. 18.. वर्तते. ववृते. वर्तिता..
184 द्युद्भ्यो लुङि। बहुवचनात् द्युतादिभ्य इति गम्यते। दिग्योगे पञ्चमी। `तस्मादित्त्युत्तरस्ये'ति परिभाषया परस्येति लभ्यते। `शेषात्कर्तरी'त्यतः परस्मैपदमित्यनुवर्तते। तदाह– द्युतादिभ्य इति। परस्मैपदे अङिति। आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः। तदाह– द्युतादिभ्य इति। परस्मैपदे अङिति। आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः। तदाह–अद्योतिष्टेति। \उfffदिआता वर्णे इति। आत्मनेपदपक्षे रूपम्। एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः। ञि मिदा स्नेहने इति। ञिरित् `ञीतः क्तः' इत्येतदर्थः।
157 द्युद्भ्यो लुङि। बहुवचननिर्देशाच्छौण्डैरित्यत्रेव तदादिग्रहणम्। तदाह - - द्युतादिभ्य इति। द्युतादयो `घट चेष्टाया'मित्यवधिकाः। `डः सी'त्यत्रेव लुङीति सप्तम्याः षष्ठ\उfffद्र्थतेत्यभिप्रेत्याह— लुङः परस्मपैदमिति। ञिमिदा।
वृत्ति: द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । परस्मैपदम् is optionally used in place of लुँङ् when following a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६).
Note: In the धातु-पाठ:, the verbal roots √द्युत् (द्युतँ दीप्तौ १. ८४२) etc. are अनुदात्तेतः (have अनुदात्त-स्वरः on the इत् vowel.) Therefore, in the absence of 1-3-91, only आत्मनेपदम् would have been possible as per 1-3-12.
उदाहरणम् – अवृतत्/अवर्तिष्ट derived from √वृत् (वृतुँ वर्तने १. ८६२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
वृत् + लुँङ् 3-2-110
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. Note: By 1-3-91 परस्मैपदम् is optionally used here.
= वृत् + ति 1-3-3, 1-3-9
= वृत् + त् 3-4-100
= वृत् + च्लि + त् 3-1-43
= वृत् + अङ् + त् 3-1-55. Note: 1-1-5 stops 7-3-86.
= वृत् + अ + त् 1-3-3, 1-3-9
= अट् वृत् + अ + त् 6-4-71, 1-1-46
= अवृतत् 1-3-3, 1-3-9
When the optional परस्मैपदम् affix is not used, the form is अवर्तिष्ट।
वृत् + लुँङ् 3-2-110
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= वृत् + च्लि + त 3-1-43
= वृत् + सिँच् + त 3-1-44
= वृत् + स् + त 1-3-2, 1-3-3, 1-3-9
= वृत् + इट् स् + त 7-2-35, 1-1-46
= वृत् + इ स् + त 1-3-3, 1-3-9
= वर् त् + इ स् + त 7-3-86, 1-1-51
= अट् वर् त् + इ स् + त 6-4-71, 1-1-46
= अ वर् त् + इ स् + त 1-3-3, 1-3-9
= अ वर् त् + इ ष् + त 8-3-59
= अवर्तिष्ट 8-4-41