Table of Contents

<<1-3-78 —- 1-3-80>>

1-3-79 अनुपराभ्यां कृञः

प्रथमावृत्तिः

TBD.

काशिका

कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्। तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवं पूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

748 कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्. अनुकरोति. पराकरोति..

बालमनोरमा

570 अनुपराभ्यां कृञः। `परस्मैपदमिति शेषः। ननु `स्वरितञितः' इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फले `शेषात्कर्तरी'ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह– कर्तृगेऽपीति। गन्धनादाविति। गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः। मा भूदिति। भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः। ननु कर्तरीत्यस्यानुवृत्तावपि `अनुक्रियते शब्दः स्वयमेवे'त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति– नचेति। एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः। कुत इत्यत आह- - कार्यातिदेशेति। तत्र कर्मकर्तरि `कर्मवत्कर्मणा तुल्यक्रियः' इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः। नु कर्मणि यच्छास्त्रं तत् `कर्मवत्कर्मणे'ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरि `भावकर्मणो'रित्यात्मनेपदशास्त्रमिह प्राप्तम्। तस्य च परत्वाऽभावात् `अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह– कार्यातिदेशपक्षस्य मुख्यतयेति। शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम्। ततश्च `कर्मवत् कर्मणे'त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते। तस्य च परत्वात्तेनात्मनेपदेन `अनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः। `कर्मवत्कर्मणे'त्यत्र शास्त्रातिदेशमभ्युपगम्याअह—– शास्त्रातिदेशपक्षे त्विति। `अनुपराभ्यां कृञः' इत्यत्र `कर्तरि कर्मव्यतिहारे' इत्यस्मादेकं कर्तृघणमनुवर्तते। तथा `शेषात्कर्तरि परस्मैपद'मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते। तथा च `स्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद'मिति लभ्यते। एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः।

तत्त्वबोधिनी

471 अस्य बाधादिति। `अनुपराभ्या'मित्यस्येत्यर्थः। अत एव `कर्मवत्कर्मणे'ति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति। शास्त्रातिदेशपक्षे `कर्मवत्कर्मणे' त्यनेनात्मनेपदं न विधीयते, किं तु तद्विधायकं `भावकर्मणो'रिति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेण `अनुपराभ्या'मित्यनेन बाधमाशङ्क्याह– शास्त्रातिदेश इत्यादि। स्वरितेदिति। तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः।

Satishji's सूत्र-सूचिः

TBD.