TBD.
स्वरितेन इति इत्थम् भूतलक्षणे तृतीया। स्वरितो नाम स्वरविशेषो वर्णधर्मः। तेन चिह्णेन अधिकारो विदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं शब्दरूपम् अधिकृतत्वादुत्तरत्र उपतिष्ठते। प्रतिज्ञास्वरिताः पाणिनीयाः। प्रत्ययः 3-1-1। धातोः 3-1-91)। ञ्याप्प्रातिपदिकात् (*4,1.1)। अङ्गस्य (*6,4.1। भस्य 6-4-129)। पदस्य (*8,1.16।
TBD.
–
1921 स्वरितेनाधिकारः। अधिकारः=व्यापृतिः। यथा लोके `अधिकृतो ग्रामेऽसा'विति व्यापृत इति गम्यते। शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः। स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः। यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत्। फलितमाह–स्वरितत्वयुक्तमित्यादिना। आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम्। अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः। यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम्। पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः। `उत्तरोत्तर'मित्यत्र `आनुपूव्र्ये द्वे वाच्ये' इति द्वित्वम्। `कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात्सुपो लुक्। बलवच्छब्दात् `द्विवचनविभज्योपपदे तरबीयसुनौ ' इति ईयसुन्। `विन्मतोर्लु'गिति मतुपो लुक्। परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः। परं विप्रतिषेधसूत्रात् बलवत्। परान्नित्यं यथा–तुदति। अत्र `तुदादिभ्यः शः' इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति। शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः। `कृताकृतप्रसङ्गी यो विधिः स नित्य' इति हि तल्लक्षणम्। अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते। ततः `सार्वधातुकमपित्' इति शस्य ङित्त्वात् `क्ङिति च ' इति निषेधान्न गुणः। अक्लृप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया क्लृप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम्। परादन्तरङ्गं यथा–उभये देवमनुष्याः। अत्र `प्रथमचरमे'ति परमपि विकल्पं बाधित्वा `सर्वादीनी'ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात्। अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम्। तस्य बलवत्त्वे बीजमाह–\र्\नसिद्धं बहिरङ्गमन्तरङ्गे। अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः। इयं तु परिभाषा `वाहौउठ्'सूत्रे भाष्ये स्थिता। परादपवादो यथा–दध्ना। अस्थिदधीत्यनङ्?। इह परमप्यनेकालिति सर्वादेशं बाधित्वा `ङिच्चे'त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात्। अपवादस्य बलवत्त्वे बीजं। त्वनुपदमेवोक्तम्। नित्यादन्तरङ्गं यथा– ग्रामणिनि कुले इह। नित्यमपीकोऽचीति नुमं बाधित्वा `ह्यस्वो नपुंसके' इति ह्यस्वः। प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात्। अन्तरङ्गादपवादो यथा–दैत्यारिः। श्रीशः। परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः।\र्\नकृतव्यूहाः पाणिनीयाः। न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः। तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे- निमित्तमित्यादिना। `सेदुष' इत्याद्युदाहरणम्। तच्च शब्दाधिकारे `सेदिवस्'शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति। इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम्। \र्\निति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥ प्राग्दिशीयाः।
1470 स्वरितेनाधिकारः। अत्रेत्थंभूतलक्षणे तृतीया। अधिकारो विनियोगः। कियद्?दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम्। यथा–आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि। यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः। कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम्। नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः- अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम्। तथाहि-अधि-अधिकः कारोऽधिकारः। अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः। तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः। किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते। तथा च `नुमचिरतृज्वद्भावेभ्यो नु'डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति॥ परान्नित्यं यथा-`तुदादिभ्यः शः'। तुदति। `रुधादिभ्यः श्नम्'। रुणद्धि। परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ। तथा धिनवाव, धिनवाम। परमपि `लोपस्चास्यान्यतरस्यां म्वो'रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट्। परादन्तरङ्गं यथापरमपि `अनेका'लिति सर्वादेशं बाधित्वा `डिच्चे'त्यन्तादेशः। दध्ना, दध्ने। `अस्थिदधी'त्यनङ्। नित्यादन्तरङ्गं यथा-`ग्रामणिनी कुले'। नित्यमपीकोऽचीति नुमं बाधित्वा `ह्यस्वो नपुंसके' इति ह्यस्वः। कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात्। अन्तरङ्गादपवादो यथा-`दैत्यारि', `श्रीशः'। परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः। तथा `उन्न्यः' सुल्वौ `सुल्वः' इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, `ओः सुपी'ति च यण्। यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाच इति, `ओः सुपी'ति च यण्। यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेण `अनेकाल्शि'दित्यनेन बाध्यते,-जीवतात्। भवतात्। अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम्।-अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते। तस्य असमानाश्रये `दैत्यारिः' `श्रीश' इत्यादौ चरितार्थत्वात्॥\र्\नसिद्धमिति। तेन `पचावेद'मित्यादौ `एत ऐ' इत्यैत्वं न। अकृतव्यूहा इति। अकृतकार्या इत्यर्थः। एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह–निमित्तं विनाशोन्मुखं दृष्ट्वेति। लोकसिद्धार्थकथनमेतत्। यद्वा। अक्षरार्थेनाप्येतत्कथनम्। ऊह्रते तर्क्यत इत्यूहः-कार्यम् , विशिष्टो य ऊहो व्यूहो=विनाशोन्मुखनिमित्तकं कार्यम्। अकृतो व्यूहो यैस्ते अकृतव्यूहा इति। यद्यपि `कृतमपि शास्त्रं निवर्तयन्ती'ति परिभाषान्तरं पठ\उfffद्ते, फलं च तुल्यं, तथापि `अकृतव्यूहा' इत्येव लघु, `प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मिति न्यायादिति भावः। न कुर्वन्तीति। यथा निषेदुषी'मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि `भाविना संप्रसारणेन वलादित्वं नङ्क्षयती'त्यालोच्य न कुर्वन्तीत्यर्थः॥\र्\निति तत्त्वबोधिन्यां परिभाषाप्रकरणम्।
TBD.