Table of Contents

<<1-2-7 —- 1-2-9>>

1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश् च

प्रथमावृत्तिः

TBD.

काशिका

रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च 1-2-23 इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर् विध्यर्थम् एव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि इत्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिशति। मुषित्वा, मुमुषिषति। गृहीत्व, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहाऽदीनां कित्त्वात् सम्प्रसारणं भवति। किरश्च पञ्चभ्यः 7-2-75 इति प्रच्छेरिडागमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

9 मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्. तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः. ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्. एचामपि द्वादश, तेषां ह्रस्वाभावात्..

बालमनोरमा

436 रुदविद। इका निर्देशात् संप्रसारणे गृहीति निर्देशः। स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात्। चकारात् `मृडमृदगुधे'ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते। तदाह – सन् क्त्वा चेति। किताविति। `असंयोगाल्लि'डित्यतस्तदनुवृत्तेरिति भावः। रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित्। अविशेषात्सर्वस्येत्यन्ये। `हलन्ताच्चे'ति सिद्धे रुदविदमुषां ग्रहणं `रलो व्युपधा'दिति विकल्पबाधनार्थम्। ग्रहेस्तु क्त्वायां `न क्त्वा से'डिति निषेधबाधनार्थम्।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम्। रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः।

तत्त्वबोधिनी

380 रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। इह रुदविदमुषाणां ग्रहणं `रलो व्युपधा'दिति विकल्पे प्राप्ते, ग्रहेः `न क्त्वा से'डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम्। रुदित्वा। विदित्वा। मुषित्वा।सुप्त्वा। पृष्ट्वा। एतेषु संप्रसारणमपि फलम्।

Satishji's सूत्र-सूचिः

वृत्तिः एभ्यः सन् क्त्वा च कितौ स्तः । The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).

Example continued from 7-2-12

ग्रह् + स Note: By 1-2-8 the affix सन् is a कित् here. This allows 6-1-16 to apply in the next step.
= ग् ऋ अ ह् + स 6-1-16, 1-1-45
= गृह् + स 6-1-108. Note: By 1-2-8 the affix सन् is a कित् here. Hence 1-1-5 stops 7-3-86
= गृह् स् गृह् स 6-1-9
= गर् ह् स् गृह् स 7-4-66, 1-1-51
= जर् ह् स् गृह् स 7-4-62
= ज गृह् स 7-4-60
= जि गृह् स 7-4-79
= जि गृढ् स 8-2-31
= जि घृढ् स 8-2-37
= जि घृक् स 8-2-41
= जि घृक् ष 8-3-59
= जिघृक्ष । “जिघृक्ष” gets धातु-सञ्ज्ञा by 3-1-32

जिघृक्ष + लँट् 3-2-123 = जिघृक्षति 1-3-62, 1-3-78 or जिघृक्षते 1-3-62, 1-3-72