TBD.
किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति। कृ\उ0304 चिकरिषति। गृ\उ0304 जिगरिषति। दृङ् दिदरिषते। धृङ् दिधरिषते। प्रच्च्ः पित्रच्छिषति। पञ्चभ्यः इति किम्? सिसृक्षति। किरतिगिरत्योः इट् सनि वा 7-2-41 इति विकल्पः प्राप्तः, वृ\उ0304तो वा 7-2-35 इति च। अस्येटो दीर्घत्वं न इच्छन्ति।
TBD.
–
438 किरश्च पञ्चभ्यः। किर इति पञ्चमी। किरादिभ्य इति विवक्षितम्। तुदादौ `कृ? विक्षेपे', `गृ? निगरणे', `दृङ् आदरणे', `धृङ् अवस्थाने', `प्रच्छ ज्ञीप्साया'मिति स्थिताः। तदाह – कृ? गृ? इत्यादिना। सन इडिति। `स्मिपूङ्ञ्जवशां सनी'त्यतः, `इडत्त्यर्ती'त्यतश्च तदनुवृत्तेरिति भावः। किरतिगिरत्योः `इट्सनि वे'ति विकल्पे, अन्येषां च `एकाच' इति निषेधे प्राप्तेऽयमिड्विधिः। शब्देन्दुशेखरे तु `सनि ग्रहेटति `एकाच' इति च निषेधे प्राप्ते वचनमित्युक्तम्। पिपृच्छषतीति। सनः कित्त्वात् `ग्रहिज्ये'ति संप्रसारणम्। चिकरिषतीति। `अचि विभाषे'ति लत्वविकल्प इति भावः। `इट् सनि वे'त्यस्यायमपवादः। चिकरिषति, जिगरिषतीत्यत्र `वृ?तो वे'ति दीर्घमाशङ्क्याह– अत्रेटो दीर्घो नेष्ट इति। वार्तिकमिदं वृत्तौ स्थितम्। भाष्ये तु न दृश्यते। दिदरिषते दिधरिषते इति। दृङो धृङश्च सनि इटि रूपम्. `पूर्ववत्सनः' इत्यात्मनेपदम्। कथमिति। `उद्दिधीर्षुटरिति कथमित्यन्वयः। किरादित्वेन इट्प्रसङ्गादिति भावः। भौवादिकयोरिति। `धृङ् अवस्थानेट, `धृञ् धारणे' इत्यनयोर्भौवादिकयोः सनि किरादित्वाऽभावे `अज्झनगमां सनी'ति दीर्घे `ऋत इद्धातो'रिति इत्त्वे, रपरत्वे, `हलि चे'ति दीर्घे, षत्वे, उद्दिधीर्ष इत्स्मात्, `सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण- जानीहीति शङ्ककं प्रत्युत्तरम्।
382 किरश्च पञ्चभ्यः। `पञ्च'ग्रहणमुत्तरार्थं स्पष्टप्रतिपत्तये इहैव कृतम्। एवं च प्रच्छधातोरनन्तरं गणपाठस्थं वृत्करणं त्युक्तं शक्यम्। अत्रत्य `पञ्चब्य' इत्यनेनैव वृत्करणं यत्तदपाणिनीयमिति व्याख्येयमित्याहुः। केचित्तु- - `भूषाकर्मकिरादिसना'मिति वार्तिके किरादिज्ञानार्थं वृत्करणमावश्यकमित्याहुः॥ अत्रेट इति। `वृ?तो वे'ति प्राप्ते भाष्यकारेष्टिरियम्। भौवादिकयोरिति। तथा च `अज्झनगमा'मिति वक्ष्यमाणेन दीर्घ इति भावः।
वृत्तिः कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् । The affix सन् takes the augment इट् when it follows any of the following verbal roots √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५), √गॄ (गॄ निगरणे ६. १४६), √दृ (दृङ् आदरे ६. १४७), √धृ (धृङ् अवस्थाने ६. १४८) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
उदाहरणम् – चिकरिषति is a desiderative form derived from √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कॄ + सन् 3-1-7
= कॄ + स 1-3-3, 1-3-9
= कॄ + इट् स 7-2-75, 1-1-46. Note: In the absence of 7-2-75, the augment इट् would not have been possible here because 7-2-12 would block 7-2-35.
= कॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix “इस” does not begin with a झल् letter.
= कर् + इस 7-3-84, 1-1-51
= कर् कर् + इस 6-1-9
= चर् कर् + इस 7-4-62
= च कर् + इस 7-4-60
= चि कर् + इस 7-4-79
= चिकरिष 8-3-59
“चिकरिष” gets धातु-सञ्ज्ञा by 3-1-32
चिकरिष + लँट् 3-2-123 = चिकरिषति 1-3-62, 1-3-78