Table of Contents

<<1-2-22 —- 1-2-24>>

1-2-23 नौपधात् थफान्ताद् वा

प्रथमावृत्तिः

TBD.

काशिका

निष्ठा इति निवृत्तम्। निकारौपधाद् धातोः थकारान्तात् फकरान्ताच् च परः क्त्वा प्रत्ययः सेड् व न किद् भवति। ग्रथित्वा, ग्रन्थित्व। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नौपधातिति किम्? रेफित्वा। गोफित्वा। थफान्तातिति किम्? स्रंसित्व। ध्वंसित्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1592 नोपधात्थ। अन्तग्रहणं स्पष्टार्थम्। `थफा' दित्युक्तेऽपि धातोरेव क्तवाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात्। कोथित्वा। रेफित्वेति। कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु। इह `रलो व्युपधा' दिति विकल्पोऽपि न भवति, नोपधग्रहसामथ्र्यात्।

Satishji's सूत्र-सूचिः

TBD.