TBD.
सनित्यनुवर्तते। क्त्वा इति निवृतम्। इगन्ताद् धातोः परो झलादिः सन् किद् भवति। चिचीषति। तुष्टूषति। चिकीर्षति। इकः इति किम्? पिपासति। तिष्ठासति। झलिति किम्? शिशयिषते। किम् अर्थम् इदम् उच्यते? गुणो मा भूतिति। अज्झनगमां सनि 6-4-16 इति दीर्घत्वं गुणस्य बाधकं भविष्यति? यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बधेत। तस्माद् दीर्घत्वस्य अवकाशदानाय कित्त्वम् इदम् आरभ्यते। चिचीषति इत्यादिषु सावकाशं दीर्घत्वं पर्त्वाद् णिलोपेन बाध्यते। ज्ञीप्सति। इकः कित्त्वं गुणो मा भूत् दीर्घाऽरम्भात् कृते भतेत्। अनर्थकम् तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते। 1। सामर्थ्याद्धि पुनर्भाव्यमृ\उ0304दित्त्वं दीर्घसंश्रयम्। दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनम्। 2।
TBD.
712 इगन्ताज्झलादिः सन् कित् स्यात्. ॠत इद्धातोः. कर्तुमिच्छति चिकीर्षति..
439 इको झल्। इगन्तादिति। सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः। सन् किदिति। `रुदविदमुषग्रही'त्यतः, `असंयोगाल्लिट्कि'दित्यश्च तदनुवृत्तेरिति भावः। बुभूषतीति। कित्त्वान्न गुणः। इकः परत्वान्नेट्। दिदीषते इति। सनः कित्त्वान्न गुणः। दीङो ङित्त्वात् `पूर्ववत्सनः' इत्यात्मनेपदम्। एज्विषयत्वाभवादिति। कित्त्वे गुणनिषेधादिति भावः। अत एवेति। यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्, `गामादाग्रहणेष्विशेषः' इत्युक्तेरिति भावः।
383 इको झल्। `रुदविदे'त्यतः सननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते,वशेष्यणेन च तदन्तविधिरित्याह— इगन्तादिति। इगन्तात्किम् ?। पिपासति। तिष्ठासति। झलीति किम् ?। शिशयिषते। कित्स्यादिति। `असंयागाल्लिट्कि'दित्तः किदनुवर्तत इति भावः। एज्विषयत्वाऽभावादिति। कित्त्वेन गुणाऽप्राप्तेरित्यर्थः। अत एवेति। यद्येज्विषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यात, गामादाग्रहणेष्वविशेषादिति भावः।
वृत्तिः इगन्ताज्झलादिः सन् कित् स्यात् । The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter.
Note: The affix सन् by itself is झलादिः but when it takes a “इट्” augment that joins itself to the beginning of “सन्” then the affix becomes “इस” which is no longer झलादिः। So a झलादिः “सन्” means the affix “सन्” which is without the augment इट्।
उदाहरणम् – चिकीर्षति/चिकीर्षते is a desiderative form derived from √कृ (डुकृञ् करणे, # ८. १०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृ + सन् 3-1-7
= कृ + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= कॄ + स 6-4-16. Note: The affix “स” is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= किर् + स 7-1-100, 1-1-51
= किर् स् किर् स 6-1-9
= कि किर् स 7-4-60
= चि किर् स 7-4-62
= चि कीर् स 8-2-77
= चिकीर्ष 8-3-59
“चिकीर्ष” gets धातु-सञ्ज्ञा by 3-1-32
चिकीर्ष + लँट् 3-2-123 = चिकीर्षति 1-3-62, 1-3-78 or चिकीर्षते 1-3-62, 1-3-72